श्रवणम्

9.64.16
प्र हि᳚न्वा॒नास॒ इन्द॒वो॑च्छा᳚ समु॒द्रमा॒शवः᳚ ।
धि॒या जू॒ता अ᳚सृक्षत ॥
▶ पदपाठः (Word-by-word)
प्र । हि॒न्वा॒नासः᳚ । इन्द᳚वः । अच्छ᳚ । स॒मु॒द्रम् । आ॒शवः᳚ ।
धि॒या । जू॒ताः । अ॒सृ॒क्ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आशवो वेगवन्त इन्दवः सोमाः समुद्रमन्तरिक्षमच्छ प्रति हिन्वानासोहिन्वानाः प्रेर्य- माणाः धिया अंगुल्या जूताः कृष्टाश्च प्रासृक्षत सृज्यन्ते ॥ १६ ॥