द॒ध॒न्वा{4} यो नर्यो᳚ अ॒प्स्व१॒᳚न्तरा सु॒षाव॒ सोम॒मद्रि᳚भिः ॥
पदपाठः (Word-by-word)
द॒ध॒न्वान् । यः । नर्यः᳚ । अ॒प्॑सु । अ॒न्तः । आ । सु॒साव᳚ । सोम᳚म् । अद्रि᳚॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
हेऋत्विजः सुतमभिषुतं सोमं इतः अस्मात्कर्मणऊर्ध्वं अथवा अस्मात् प्रदेशादुर्ध्वं परिषिंचत वसतीवरीभिः । इतोषिंचतेत्यत्र संहितायां छन्दसीति रोरुत्त्वेम् । यः सोमः देवानामुत्तमं प्रशस्यं हविर्भवति । आ अपिच नर्योमनुष्यहितोयश्चसोमः अप्सु वसतीवरी- षु अन्तरिक्षेवा अन्तर्दधन्वान् गच्छन् भवति तं सोममद्रिभिर्ग्रावभिः अध्वर्युः सुषाव अ- भिषुतं चकार तं परिषिंचतेति समन्वयः ॥ १ ॥