श्रवणम्

9.107.10
आ सो᳚म सुवा॒नो अद्रि᳚भिस्ति॒रो वारा᳚ण्य॒व्यया᳚ ।
जनो॒ न पु॒रि च॒म्वो᳚र्विश॒द्धरि॒ः सदो॒ वने᳚षु दधिषे ॥
▶ पदपाठः (Word-by-word)
आ । सो॒म॒ । सु॒वा॒नः । अद्रि᳚॑भिः । ति॒रः । वारा᳚णि । अ॒व्यया᳚ ।
जनः᳚ । न । पु॒रि । च॒म्वोः᳚ । वि॒श॒त् । हरिः᳚ । सदः᳚ । वने᳚षु । द॒धि॒षे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अद्रिभिर्ग्रावभिः सुवानोभिषूयमाणस्त्वं अव्यया अविमयानि वाराणि वाला- नि पवित्राणि तिरस्कुर्वन् व्यवधायकानि कुर्वाणः सन् आपवसे इतिशेषः । हरिर्हरितवर्णः ससोमः चम्वोरधिषवणफलकयोः उपरिस्थिते कलशे विशत् प्रविशति । तत्र दृष्टान्तः— जनोन यथाजनः पुरि पुरे प्रविशति । सत्वं वनेषु काष्ठनिर्मितेषु पात्रेषु सदः स्थानं दधिषे करोषि ॥ १० ॥