श्रवणम्

9.107.24
स तू प᳚वस्व॒ परि॒ पार्थि᳚वं॒ रजो᳚ दि॒व्या च᳚ सोम॒ धर्म᳚भिः ।
त्वां विप्रा᳚सो म॒तिभि᳚र्विचक्षण शु॒भ्रं हि᳚न्वन्ति धी॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । तु । प॒व॒स्व॒ । परि᳚ । पार्थि᳚वम् । रजः᳚ । दि॒व्या । च॒ । सो॒म॒ । धर्म᳚॑भिः ।
त्वाम् । विप्रा᳚सः । म॒ति॑भिः᳚ । वि॒॑च॒क्ष॒ण॒ । शु॒भ्रम् । हि॒न्व॒न्ति॒ । धी॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सतादृशस्त्वं पार्थिवं रजोलोकं प्रति दिव्या दिव्यानि च रक्षांसि वर्मभिर्धा- रकैः सह तुक्षिप्रं परिपवस्व परितः क्षर । हे विचक्षण विद्रष्टः सोम विप्रासोविप्रामेधा- विनोमतिभिः स्तुतिभिः धीतिभिरंगुलीभिश्च शुभ्रं श्वेतवर्णं त्वां हिन्वन्ति प्रेरयन्ति ॥ २४ ॥