श्रवणम्

9.107.12
प्र सो᳚म दे॒ववी᳚तये॒ सिन्धु॒र्न पि᳚प्ये॒ अर्ण᳚सा ।
अं॒शोः पय᳚सा मदि॒रो न जागृ᳚वि॒रच्छा॒ कोशं᳚ मधु॒श्चुत᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । सो॒म॒ । दे॒व॑वी᳚तये । सिन्धुः᳚ । न । पि॒प्ये॒ । अर्ण᳚सा ।
अं॒शोः । पय᳚सा । म॒दि॒रः । न । जागृ᳚विः । अच्छ᳚ । कोश᳚म् । म॒धु॒॑श्चुत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम देववीतये देवानां पानाय तदर्थं अर्णसा वसतीवर्याख्येनोदकेन प्रपिप्ये प्रप्या यसे । तत्रदृष्टान्तः—सिन्धुर्न यथा सिन्धुरुदकेनप्रपिप्ये प्र्प्यायते तद्वत् । प्यायतेर्लिटि लि- ड्यङोश्चेति पीभावः । ततः सत्वं मदिरोन मदकरः सुरादिरिव जागृविर्जागरणशीलः यद्वा नः संप्रत्यर्थे इदानीं मदकरोजागरणशीलस्त्वं अंशोः लताखंडस्य पयसा रसेन मधु- श्चुतं रसस्य क्षारयितारं कोशं द्रोणकलशं अच्छाभिगच्छसि ॥ १२ ॥