पु॒ना॒नः सो᳚म॒ धार᳚या॒पो वसा᳚नो अर्षसि ।
आ र᳚त्न॒धा योनि᳚मृ॒तस्य᳚ सीद॒स्युत्सो᳚ देव हिर॒ण्ययः᳚ ॥
आ र᳚त्न॒धा योनि᳚मृ॒तस्य᳚ सीद॒स्युत्सो᳚ देव हिर॒ण्ययः᳚ ॥
पदपाठः (Word-by-word)
पु॒ना॒नः । सो॒म॒ । धार᳚या । अ॒पः । वसा᳚नः । अ॒र्ष॒सि॒ ।
आ । र॒त्न॒॑धाः । योनि᳚म् । ऋ॒तस्य᳚ । सी॒द॒सि॒ । उत्सः᳚ । दे॒व॒ । हि॒र॒ण्ययः᳚ ॥
आ । र॒त्न॒॑धाः । योनि᳚म् । ऋ॒तस्य᳚ । सी॒द॒सि॒ । उत्सः᳚ । दे॒व॒ । हि॒र॒ण्ययः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम पुनानः पूयमानस्त्वं अपउदकानि वसतीवर्याख्यानि वसानः आच्छादयन् धारया अर्षसि पवित्रं गच्छसि । ततः रत्नधाः रत्नानां दाता त्वं ऋतस्य सत्यभूतस्य यज्ञस्य योनिं स्थानमासीदसि हे देव द्योतमान सोम उत्सः प्रस्यन्दनशीलस्त्वं हिरण्ययः हिरण्मयः हिरण्यस्योत्पत्तिस्थानं खलु यद्वा देवानां हितरमणीयोभवसि ॥ ४ ॥