श्रवणम्

9.107.17
इन्द्रा᳚य पवते॒ मद॒ः सोमो᳚ म॒रुत्व᳚ते सु॒तः ।
स॒हस्र᳚धारो॒ अत्यव्य᳚मर्षति॒ तमी᳚ मृजन्त्या॒यवः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । प॒व॒ते॒ । मदः᳚ । सोमः᳚ । म॒रुत्व᳚ते । सु॒तः ।
स॒हस्र᳚॑धारः । अति᳚ । अव्य᳚म् । अ॒र्ष॒ति॒ । तम् । ई॒मिति᳚ । मृ॒ज॒न्ति॒ । आ॒यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मदोमादकः सुतोभिषुतः सोमः मरुत्वते मरुद्भिस्तद्वते इन्द्रायेद्रार्थं पवते क्षरति ततः सहस्रधारः बहुधारोपेतः सोमः अव्यं अविमयं पवित्रमत्यर्षति अतिगच्छति तं ईमिमं सोमं आयवोमनुष्याऋत्विजः मृजन्ति शोधयन्ति ॥ १७ ॥