पव᳚स्व॒ वाज᳚सातये॒॑भि विश्वा᳚नि॒ काव्या᳚ ।
त्वं स᳚मु॒द्रं प्र᳚थ॒मो वि धा᳚रयो दे॒वेभ्य᳚ः सोम मत्स॒रः ॥
त्वं स᳚मु॒द्रं प्र᳚थ॒मो वि धा᳚रयो दे॒वेभ्य᳚ः सोम मत्स॒रः ॥
पदपाठः (Word-by-word)
पव᳚स्व । वाज᳚॑सातये । अ॒भि । विश्वा᳚नि । काव्या᳚ ।
त्वम् । स॒मु॒द्रम् । प्र॒थ॒मः । वि । धा॒र॒यः॒ । दे॒वेभ्यः᳚ । सो॒म॒ । म॒त्स॒रः ॥
त्वम् । स॒मु॒द्रम् । प्र॒थ॒मः । वि । धा॒र॒यः॒ । दे॒वेभ्यः᳚ । सो॒म॒ । म॒त्स॒रः ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम विश्वानि सर्वाणि काव्या कविकर्माणि स्तोत्राणि अभिलक्ष्य वाजसातये अन्न- लाभाय पवस्व क्षर । हे सोम देवेभ्यः देवानां मत्सरोमदकरः प्रथमः सर्वदेवानां मूख्यः त्वं समुद्रं अन्तरिक्षं कलशं वा विधारयः विशेषेण धारयसि ॥ २३ ॥