नृभि᳚र्येमा॒नो ह᳚र्य॒तो वि᳚चक्ष॒णो राजा᳚ दे॒वः स᳚मु॒द्रियः᳚ ॥
पदपाठः (Word-by-word)
नृ॑भिः᳚ । ये॒मा॒नः । ह॒र्य॒तः । वि॒॑च॒क्ष॒णः । राजा᳚ । दे॒वः । स॒मु॒द्रियः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
नृभिः कर्मनेतृभिः येमानः नियम्यप्रानः हर्यतः स्पृहणीयः विचक्षणोविद्रष्टा देवोदीप्य- मानः समुद्रियः अन्तरिक्षेभवः राजा सोमः इन्द्रार्थं पवतइत्युत्तरेण संबन्धः समुद्राभ्राद्घ- इति भावार्थे घप्रत्ययः ॥ १६ ॥