श्रवणम्

9.107.13 समानपद
आ ह᳚र्य॒तो अर्जु᳚ने॒ अत्के᳚ अव्यत प्रि॒यः सू॒नुर्न मर्ज्य᳚ः ।
तमीं᳚ हिन्वन्त्य॒पसो॒ यथा॒ रथं᳚ न॒दीष्वा गभ᳚स्त्योः ॥
▶ पदपाठः (Word-by-word)
आ । ह॒र्य॒तः । अर्जु᳚ने । अत्के᳚ । अ॒व्य॒त॒ । प्रि॒यः । सू॒नुः । न । मर्ज्यः᳚ ।
तम् । ई॒म् । हि॒न्व॒न्ति॒ । अ॒पसः᳚ । यथा᳚ । रथ᳚म् । न॒दीषु᳚ । आ । गभ᳚स्त्योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हर्यतः स्पृहणीयः प्रियः प्रीणयितासूनुर्न सूनुरिव मर्ज्योमार्जनीयः सोमः अर्जुने अर्जुन वर्णे अत्के रूपे पवित्रे आव्यत आवृणोति तमीमेनं सोमं अंगुलयः नदीषु नदमानासु वस तीवरोषु गभस्त्योर्बाह्वोराभिमुख्येन हिन्वन्ति प्रेरयन्ति । तत्र दृष्टान्तः—अपसो यथा वे- गवन्तोजना रथं संग्रामेषु प्रेरयन्ति तद्वत् ॥ १३ ॥