श्रवणम्

9.107.8 समानपद
सोम᳚ उ षुवा॒णः सो॒तृभि॒रधि॒ ष्णुभि॒रवी᳚नाम् ।
अश्व᳚येव ह॒रिता᳚ याति॒ धार᳚या म॒न्द्रया᳚ याति॒ धार᳚या ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । ऊं॒ इति᳚ । सु॒वा॒नः । सो॒तृ॑भिः । अधि᳚ । स्नु॑भिः᳚ । अवी᳚नाम् ।
अश्व᳚या॑इव । ह॒रिता᳚ । या॒ति॒ । धार᳚या । म॒न्द्रया᳚ । या॒ति॒ । धार᳚या ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोतृभिरभिषुण्वद्भिरृत्विग्भिः सुवानोभिषूयमाणः सोमः अवीनां स्नुभिः । मांस्पृत्स्नूना- मुपसंख्यानमिति सानुशब्दस्य स्नुभावः समुच्छ्रितैर्वालैः पवित्रैरधियाति अधिकं गच्छति । उइति प्रसिद्धौ । अश्वयेव वडवयेव हरिता हरितवर्णया धारया याति मन्द्रया मदकारि- ण्याधारया द्रोणकलशमधिगच्छति ॥ ८ ॥