श्रवणम्

9.107.18 समानपद
पु॒ना॒नश्च॒मू ज॒नय᳚न्म॒तिं क॒विः सोमो᳚ दे॒वेषु᳚ रण्यति ।
अ॒पो वसा᳚न॒ः परि॒ गोभि॒रुत्त᳚र॒ः सीद॒न्वने᳚ष्वव्यत ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । च॒मू इति᳚ । ज॒नय᳚न् । म॒तिम् । क॒विः । सोमः᳚ । दे॒वेषु᳚ । र॒ण्य॒ति॒ ।
अ॒पः । वसा᳚नः । परि᳚ । गोभिः᳚ । उत्॑त᳚रः । सीद᳚न् । वने᳚षु । अ॒व्य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चमू सप्तम्याः पूर्वसवर्णदीर्घः चम्वोरधिषवणफलकयोः पुनानः पूयमानः अभिषूयमा- णः मतिं स्तुतिं जनयन् उत्पादयन् कविः क्रान्तप्रज्ञः एतादृशः सोमः देवेष्विन्द्रादिषु र- ण्यति । किंच अपोवसतीवरीर्वसानः आच्छादयन् वनेषु काष्ठेषु पात्रेषु सीदन् उत्तरः उत्कृ ष्टतरः सोमः गोभिर्गोविकारैः क्षीरादिभिः पर्यव्यत परिदीयते आच्छाद्यते ॥ १८ ॥