नवमं मण्डलम् - सूक्तम् 114

4 ऋचः

ऋषिः: कश्यपः देवता: पवमानः सोमः छन्दः: पंक्तिः

सूक्तम् 9.114 - सम्पूर्णम्

1 / 4
ऋक्: 9.114.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
9.114.1
य इन्दो॒ः पव᳚मान॒स्यानु॒ धामा॒न्यक्र᳚मीत् ।
तमा᳚हुः सुप्र॒जा इति॒ यस्ते᳚ सो॒मावि᳚ध॒न्मन॒ इन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
यः । इन्दोः᳚ । पव᳚मानस्य । अनु᳚ । धामा᳚नि । अक्र᳚मीत् ।
तम् । आ॒हुः॒ । सु॒॑प्र॒जाः । इति᳚ । यः । ते॒ । सो॒म॒ । अवि᳚धत् । मनः᳚ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानस्य पूयमानस्य इन्दोः सोमस्य धामानि स्थानानि द्रोणकलशादीनि यद्वा धा- मानि तेजांसि योब्राह्मणः अन्वक्रमीत् अनुक्रामति अनुगच्छति तमनुजनं सुप्रजाः शोभन- प्रजननः कल्याणपुत्रादिप्रजायुक्तइत्याहुः । नित्यमसिच् प्रजामेधयोरित्यसिच् समासान्तः । यः सोममभिषुणोति सपुत्रादियुक्तोभवतीत्यर्थः । किंच हे सोम योमनुष्यः ते त्वदर्थं मनः अविधत् करोति यद्वा ते त्वदीयं मनः अविधत् परिचरति विधतिः परिचरणकर्मा तमपि कल्याणजननमित्याहुः तस्मात् त्वं परिस्रव ॥ १ ॥

9.114.2
ऋषे᳚ मन्त्र॒कृतां॒ स्तोमै॒ः कश्य᳚पोद्व॒र्धय॒न्गिरः᳚ ।
सोमं᳚ नमस्य॒ राजा᳚नं॒ यो ज॒ज्ञे वी॒रुधां॒ पति॒रिन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
ऋषे᳚ । म॒न्त्र॒॑कृता᳚म् । स्तोमैः᳚ । कश्य᳚प । उ॒त्॑व॒र्धय᳚न् । गिरः᳚ ।
सोम᳚म् । न॒म॒स्य॒ । राजा᳚नम् । यः । ज॒ज्ञे । वी॒रुधा᳚म् । पतिः᳚ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः स्वात्मानं प्रत्याह हे ऋषे सूक्तद्रष्टः हे कश्यप आत्मन् त्वं मंत्रकृतामृषीणां स्तोमैः स्तोत्रैः गिरः स्तुतिरूपावाचः उद्वर्धयन्नुपर्युपरिर्धन् राजानं सर्वेषां स्वामिनं तं सोमं नमस्य मनसा पूजय नमसः पूजायां नमोवरिवइति क्यच् । यः सोमः वीरुधां वनस्पतीनां पतिः पालकः सजज्ञे जातः तं नमस्य हे सोम यथा आत्मना सुतोभवसि तथा परिस्रव ॥ २ ॥

9.114.3
स॒प्त दिशो॒ नाना᳚सूर्याः स॒प्त होता᳚र ऋ॒त्विजः᳚ ।
दे॒वा आ᳚दि॒त्या ये स॒प्त तेभि᳚ः सोमा॒भि र᳚क्ष न॒ इन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
स॒प्त । दिशः᳚ । नाना᳚॑सूर्याः । स॒प्त । होता᳚रः । ऋ॒त्विजः᳚ ।
दे॒वाः । आ॒दि॒त्याः । ये । स॒प्त । तेभिः᳚ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सप्तदिशः सोमोयस्यां दिशि वर्तते तद्भ्यतिरिक्ताः सप्तभवन्ति ताः नानासूर्याः नाना- विधैः सूर्यैरधिष्ठिताऋतवोभवन्ति नानालिंगत्वादृतूनां नानासूर्यत्वमित्याम्नानात् । यद्वा नानासूर्याइति दिग्विशेषणम् । तथा होतारः वषट् कर्तारोहोत्रादयः सप्तऋत्विजोभवन्ति किंच सप्तआदित्याः अदितेः पुत्राधात्रादयोमार्तंडवर्जिताः ये सप्तदेवाः सन्ति । एतत्तु— अष्टौ पुत्रासोअदितेः । इत्यत्र प्रपंचयिष्यते । हे सोम तेभिस्तैः दिगादिभिः सर्वैर्नोस्मान- भिरक्ष । एतत्तु त्वया विना नघटतइति तस्मादिन्द्रायेन्दो परिस्रव ॥ ३ ॥

9.114.4
यत्ते᳚ राजञ्छृ॒तं ह॒विस्तेन᳚ सोमा॒भि र᳚क्ष नः ।
अ॒रा॒ती॒वा मा न᳚स्तारी॒न्मो च᳚ न॒ः किं च॒नाम᳚म॒दिन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । रा॒ज॒न् । शृ॒तम् । ह॒विः । तेन᳚ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ ।
अ॒रा॒ति॒॑वा । मा । नः॒ । ता॒री॒त् । मो इति᳚ । च॒ । नः॒ । किम् । च॒न । आ॒म॒म॒त् । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे राजन् सर्वेषां कर्मसाधनत्वेन स्वामिन् हे सोम ते त्वदर्थं श्रृतं पक्वं यत् हविरस्ति श्रृतम् । श्रृतं पाकेइति निष्ठायां निघातितः । तेन हविषा नोस्मानभिरक्ष अभिपालय । तस्मात् त्वदभिरक्षितानस्मान् अरातीवा अरातित्ववान् शत्रुः नोस्मान् मातारीत् माव- धीत् । किंच नोस्माकं किंचन किंचिदपि धनादिकं शत्रुः मोआममत् माहिंसीत् । यदेतत् एतैः सूक्तैरुक्तं तद्यथास्माकं भवति तथा हे इन्दो इन्द्राय परिस्रव । एवं स्वादिष्ठयेत्या- दिभिरेतदन्तैः सूक्तैर्बहुविधं सोममाहात्म्यं अभ्यधायि तस्मात् ऎहिकामुष्मिकफलसिद्धये सोमयागः करणीयइत्युक्तं भवति ॥ ४ ॥

दशमे मंडले द्वादशानुवाकाः तत्र प्रथमानुवाके षोडशसूक्तानि तत्राग्रेबृहन्निति सप्तर्चं प्रथमं सूक्तं आप्त्यस्य त्रितस्यार्षं अनादेशपरिभाषया त्रिष्टुप् मंडलादिपरिभाषयाग्निर्देवता । तथाचानुक्रम्यते—अग्नेसप्तत्रितइति । प्रातरनुवाकाश्विनशस्त्रयोराग्नेयेक्रतौ त्रैष्टुभेछन्दसि इद- मादीन्यष्टसूक्तानि अष्टमस्यांत्यास्तिस्रोवर्जयित्वा । सूत्र्यते हि—अनेनयोग्रेबृहन्नित्यष्टानामु- त्तमादुत्तमास्तिस्रउद्धरेदितित्रैष्टुभमिति । प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य सहस्रा- वममोदेतोः शंसेदितिच होमार्थं प्रणीते आहवनीये प्राक् होमादुपशान्ते ज्योतिष्मद्गुणका- ग्निदेवताका काचिदिष्टिस्तत्राद्या याज्या । सूत्रितंच—इष्टिरग्निर्ज्योतिष्मान्वरुणउदग्नेशुचय- स्तवाग्रेबृहन्नुषसामूर्ध्वोअस्थादिति । उपाकरणोत्सर्जनयोर्मंडलादिहोमेप्येषा सूत्रमुदाहृतम् ।