श्रवणम्

9.114.1
य इन्दो॒ः पव᳚मान॒स्यानु॒ धामा॒न्यक्र᳚मीत् ।
तमा᳚हुः सुप्र॒जा इति॒ यस्ते᳚ सो॒मावि᳚ध॒न्मन॒ इन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
यः । इन्दोः᳚ । पव᳚मानस्य । अनु᳚ । धामा᳚नि । अक्र᳚मीत् ।
तम् । आ॒हुः॒ । सु॒॑प्र॒जाः । इति᳚ । यः । ते॒ । सो॒म॒ । अवि᳚धत् । मनः᳚ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानस्य पूयमानस्य इन्दोः सोमस्य धामानि स्थानानि द्रोणकलशादीनि यद्वा धा- मानि तेजांसि योब्राह्मणः अन्वक्रमीत् अनुक्रामति अनुगच्छति तमनुजनं सुप्रजाः शोभन- प्रजननः कल्याणपुत्रादिप्रजायुक्तइत्याहुः । नित्यमसिच् प्रजामेधयोरित्यसिच् समासान्तः । यः सोममभिषुणोति सपुत्रादियुक्तोभवतीत्यर्थः । किंच हे सोम योमनुष्यः ते त्वदर्थं मनः अविधत् करोति यद्वा ते त्वदीयं मनः अविधत् परिचरति विधतिः परिचरणकर्मा तमपि कल्याणजननमित्याहुः तस्मात् त्वं परिस्रव ॥ १ ॥