अश्वं॒ न त्वा᳚ वा॒जिनं᳚ म॒र्जय॒न्तो॑च्छा᳚ ब॒र्ही र᳚श॒नाभि᳚र्नयन्ति ॥
पदपाठः (Word-by-word)
अश्व᳚म् । न । त्वा॒ । वा॒जिन᳚म् । म॒र्जय᳚न्तः । अच्छ᳚ । ब॒र्हिः । र॒श॒नाभिः᳚ । न॒य॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम तु क्षिप्रं प्रद्रव गच्छ गत्वाच कोशं द्रोणकलशं परिनिषीद निषण्णोभव । नृभिर्नेतृभिः पुनानः पूयमानः वाजमन्नं यजमानार्थं उद्दिश्याभ्यर्ष अभिगच्छ । वाजिनं बलवन्तमश्वंन अश्वमिव तं यथा मार्जयन्ति तद्वद्वाजिनं त्वां मर्जयन्तः मार्जयन्तः शोध- यन्तोबर्हिर्यज्ञमच्छ प्रति रशनाभीरशनावदायताभिरंगुलिभिर्नयन्ति अध्वर्युप्रमुखाः ॥ १ ॥