श्रवणम्

9.87.2
स्वा॒यु॒धः प᳚वते दे॒व इन्दु᳚रशस्ति॒हा वृ॒जनं॒ रक्ष᳚माणः ।
पि॒ता दे॒वानां᳚ जनि॒ता सु॒दक्षो᳚ विष्ट॒म्भो दि॒वो ध॒रुणः᳚ पृथि॒व्याः ॥
▶ पदपाठः (Word-by-word)
सु॒॑आ॒यु॒धः । प॒व॒ते॒ । दे॒वः । इन्दुः᳚ । अ॒श॒स्ति॒॑हा । वृ॒जन᳚म् । रक्ष᳚माणः ।
पि॒ता । दे॒वाना᳚म् । ज॒नि॒ता । सु॒॑दक्षः᳚ । वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः᳚ । पृ॒थि॒व्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वायुधः शोभनायुधः इन्दुः सोमोदेवः पवते । सचदेवोशस्तिहा रक्षोहा वृजनं उप- द्रवं रक्षमाणः पिता पालकोदेवानां तथा जनिताउत्पादकः । सुदक्षः सुबलः दिवोविष्टंभः विशेषेणस्तंभयिता पृथिव्याश्च धरुणोधारकः एवं महानुभावः पवते ॥ २ ॥