श्रवणम्

9.87.4
ए॒ष स्य ते॒ मधु᳚मा{4} इन्द्र॒ सोमो॒ वृषा॒ वृष्णे॒ परि᳚ प॒वित्रे᳚ अक्षाः ।
स॒ह॒स्र॒साः श᳚त॒सा भू᳚रि॒दावा᳚ शश्वत्त॒मं ब॒र्हिरा वा॒ज्य᳚स्थात् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । ते॒ । मधु᳚॑मान् । इ॒न्द्र॒ । सोमः᳚ । वृषा᳚ । वृष्णे᳚ । परि᳚ । प॒वित्रे᳚ । अ॒क्षा॒रिति᳚ ।
स॒ह॒स्र॒॑साः । श॒त॒॑साः । भू॒रि॒॑दावा᳚ । श॒श्व॒त्॑त॒मम् । ब॒र्हिः । आ । वा॒जी । अ॒स्था॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वृष्णे वर्षकाय ते तुभ्यं एषस्यः ससोमोमधुमान् माधुर्योपेतोवृषा वर्षकः पवित्रे पर्यक्षाः परिक्षरति क्षरतेर्लुङिरूपम् । सएव सहस्रसाः सहस्रसंख्याकधनस्यदाता शतसाः शतसंख्याकस्य दाता भूरिदावा ततोपि भूरेर्दाता वाजी बलवान् शश्वत्तमं नित्यं बर्हिर्यज्ञं आ अस्थात् आतिष्ठति ॥ ४ ॥