परि॒ हि ष्मा᳚ पुरुहू॒तो जना᳚नां॒ विश्वास᳚र॒द्भोज᳚ना पू॒यमा᳚नः ।
अथा भ᳚र श्येनभृत॒ प्रयां᳚सि र॒यिं तुञ्जा᳚नो अ॒भि वाज᳚मर्ष ॥
अथा भ᳚र श्येनभृत॒ प्रयां᳚सि र॒यिं तुञ्जा᳚नो अ॒भि वाज᳚मर्ष ॥
पदपाठः (Word-by-word)
परि᳚ । हि । स्म॒ । पु॒रु॒॑हू॒तः । जना᳚नाम् । विश्वा᳚ । अस᳚रत् । भोज᳚ना । पू॒यमा᳚नः ।
अथ᳚ । आ । भ॒र॒ । श्ये॒न॒॑भृ॒त॒ । प्रयां᳚सि । र॒यिम् । तुञ्जा᳚नः । अ॒भि । वाज᳚म् । अ॒र्ष॒ ॥
अथ᳚ । आ । भ॒र॒ । श्ये॒न॒॑भृ॒त॒ । प्रयां᳚सि । र॒यिम् । तुञ्जा᳚नः । अ॒भि । वाज᳚म् । अ॒र्ष॒ ॥
सायणभाष्यम् (Sayana Commentary)
अयं पर्यसरत् परिसरति जनानां अर्थाय । विश्वा सर्वाणि भोजना भोजनानि अन्ना- नि धनानिवा । कीदृशः पुरुहूतः बहुभिराहूतः पूयमानः शोध्यमानः । अथप्रत्यक्षकृतः अथे- दानीं हे श्येनभृत श्येनेनाहृत सोम त्वं प्रयांस्यन्नानि आभर आहर रयिं धनं तुंजानः ददानः वाजमन्नरसं अभ्यर्ष अभिगच्छ ॥ ६ ॥