नवमं मण्डलम् - सूक्तम् 42

6 ऋचः

ऋषिः: मेध्यातिथिः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.42 - सम्पूर्णम्

1 / 6
ऋक्: 9.42.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.42.1
ज॒नय᳚न्रोच॒ना दि॒वो ज॒नय᳚न्न॒प्सु सूर्य᳚म् ।
वसा᳚नो॒ गा अ॒पो हरि᳚ः ॥
▶ पदपाठः (Word-by-word)
ज॒नय᳚न् । रो॒च॒ना । दि॒वः । ज॒नय᳚न् । अ॒प्॑सु । सूर्य᳚म् ।
वसा᳚नः । गाः । अ॒पः । हरिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं हरिः सोमो दिवोद्युसंबन्धीनि रोचना रोचनानि नक्षत्रग्रहमंडलानि जनयन् तथा अप्स्वन्तरिक्षे सूर्यंच जनयन् तथा गाः अधोगंत्रीरपोवसानो भूमिमात्मानंषा आच्छादयन् पवतइत्युत्तरत्र संबंधः ॥ १ ॥

9.42.2
ए॒ष प्र॒त्नेन॒ मन्म᳚ना दे॒वो दे॒वेभ्य॒स्परि᳚ ।
धार᳚या पवते सु॒तः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । प्र॒त्नेन᳚ । मन्म᳚ना । दे॒वः । दे॒वेभ्यः᳚ । परि᳚ ।
धार᳚या । प॒व॒ते॒ । सु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषः देवः सोमः प्रत्नेन पुराणेन मन्मना मननईयेन स्तोत्रेण युक्तः सुतोभिषुतश्च सन् देवेभ्यः परि परितो धारया स्वीयया पवते ॥ २ ॥

9.42.3
वा॒वृ॒धा॒नाय॒ तूर्व᳚ये॒ पव᳚न्ते॒ वाज᳚सातये ।
सोमा᳚ः स॒हस्र᳚पाजसः ॥
▶ पदपाठः (Word-by-word)
व॒वृ॒धा॒नाय᳚ । तूर्व᳚ये । पव᳚न्ते । वाज᳚॑सातये ।
सोमाः᳚ । स॒हस्र᳚॑पाजसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वावृधानाय वर्धमानाय तूर्वये क्षिप्राय वाजसातये संग्रामायान्नलाभायवा पवन्ते पूयन्ते के सोमाः । कीदृशाः सहस्रपाजसो परिमितबलाः असंख्या- तवेगाइत्यर्थः ॥ ३ ॥

9.42.4
दु॒हा॒नः प्र॒त्नमित्पयः᳚ प॒वित्रे॒ परि᳚ षिच्यते ।
क्रन्द᳚न्दे॒वा{4} अ᳚जीजनत् ॥
▶ पदपाठः (Word-by-word)
दु॒हा॒नः । प्र॒त्नम् । इत् । पयः᳚ । प॒वित्रे᳚ । परि᳚ । सि॒च्य॒ते॒ ।
क्रन्द᳚न् । दे॒वान् । अ॒जी॒ज॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रत्नमित् पुराणमेव पयोरसं दुहानः दधानः सोमाः पवित्रे परिषिच्यते । किंच क्रन्दन् शब्दं कुर्वन् देवानजीजनत् जनयति स्वसमीपे यत्र सोमो- भिषूयते तत्र देवानियतं प्रादुर्भवन्ति अतो जनयतीत्युपचर्यते ॥ ४ ॥

9.42.5
अ॒भि विश्वा᳚नि॒ वार्या॒भि दे॒वा{4} ऋ᳚ता॒वृधः᳚ ।
सोमः᳚ पुना॒नो अ᳚र्षति ॥
▶ पदपाठः (Word-by-word)
अ॒भि । विश्वा᳚नि । वार्या᳚ । अ॒भि । दे॒वान् । ऋ॒त॒॑वृधः᳚ ।
सोमः᳚ । पु॒ना॒नः । अ॒र्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः पुनानः पूयमानो विश्वानि वार्या वरणीयानि धनान्यभ्यर्षति तथा ऋतावृधो यज्ञवर्धकान् देवानभ्यर्षति ॥ ५ ॥

9.42.6
गोम᳚न्नः सोम वी॒रव॒दश्वा᳚व॒द्वाज᳚वत्सु॒तः ।
पव᳚स्व बृह॒तीरिषः᳚ ॥
▶ पदपाठः (Word-by-word)
गो॑म᳚त् । नः॒ । सो॒म॒ । वी॒र॑व᳚त् । अश्व᳚॑वत् । वाज᳚॑वत् । सु॒तः ।
पव᳚स्व । बृ॒ह॒तीः । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सुतस्त्वं नोस्मभ्यं गोमत् गोभिर्युक्तं वीरवद्बहुभिः वीरैरुपेतं अश्वावदश्वैर्युक्तं वाजवद्वाजैर्बलैः संग्रामैर्वोपेतं धनं बृहतीरिषः प्रभूतान्य- न्नानि पवस्व प्रयच्छेत्यर्थः ॥ ६ ॥

योअत्यइवेति षळृचमेकोनविंशंसूक्तं ऋष्याद्याःपूर्ववत् योअत्यइवेत्यनुक्रान्तं गतोविनियोगः ।