अ॒स्य प्रे॒षा हे॒मना᳚ पू॒यमा᳚नो दे॒वो दे॒वेभि॒ः सम᳚पृक्त॒ रस᳚म् ।
सु॒तः प॒वित्रं॒ पर्ये᳚ति॒ रेभ᳚न्मि॒तेव॒ सद्म᳚ पशु॒मान्ति॒ होता᳚ ॥
अ॒स्य । प्रे॒षा । हे॒मना᳚ । पू॒यमा᳚नः । दे॒वः । दे॒वेभिः᳚ । सम् । अ॒पृ॒क्त॒ । रस᳚म् ।
सु॒तः । प॒वित्र᳚म् । परि᳚ । ए॒ति॒ । रेभ᳚न् । मि॒ता॑इ᳚व । सद्म᳚ । प॒शु॒॑मन्ति᳚ । होता᳚ ॥
अस्य सोमस्य प्रेषा प्रेषतिर्गत्यर्थः क्विपिरूपं सावेकाचइतिविभक्तेरुदात्तत्वम् । प्रेषा प्रेरकेण हेमना हिरण्येन पूयमानः हिरण्यपाणिरभिषुणोतीति हिरण्यसंबन्धः । तादृशः देवोदीप्यमानांशुः रसमात्मीयं देवेभिःदेवैः सह समपृक्तः संपर्चयति संयोजयति । पृची- संपर्के ततः सुतोभिषुतः सोमः रेभन् शब्दायमानःसन् पवित्रं ऊर्णास्तुकेननिर्मितं पर्येति परिगच्छति । कथमिव होता देवानामाह्वाता ऋत्विक् मितेव निर्मितान् पशुमन्ति बद्ध- पशून् सद्म सदनानि यज्ञगृहान् यथा पर्येति तद्वत् ॥ १ ॥
भ॒द्रा वस्त्रा᳚ सम॒न्या॒३॒᳚ वसा᳚नो म॒हान्क॒विर्नि॒वच᳚नानि॒ शंस᳚न् ।
आ व᳚च्यस्व च॒म्वो᳚ः पू॒यमा᳚नो विचक्ष॒णो जागृ᳚विर्दे॒ववी᳚तौ ॥
भ॒द्रा । वस्त्रा᳚ । स॒म॒न्या᳚ । वसा᳚नः । म॒हान् । क॒विः । नि॒॑वच᳚नानि । शंस᳚न् ।
आ । व॒च्य॒स्व॒ । च॒म्वोः᳚ । पू॒यमा᳚नः । वि॒॑च॒क्ष॒णः । जागृ᳚विः । दे॒व॑वी᳚तौ ॥
भद्रा भद्राणि कल्याणानि समन्या समनमिति संग्रामनामतत्र साधुरिति यत् संग्रा- मयोग्यानि वस्त्रा वस्त्राणि आच्छादकानि तेजांसि वसानः आच्छादयन् महान् पूज्यः कविः क्रान्तदर्शी अतएव निवचनानि नितरांवक्तव्यानि ऋत्विक् कृतानि स्तोत्राणि शंसन् विचक्षणः विशेषेण सर्वस्यद्रष्टा जागृविर्जागरणशीलः सोमः त्वं देववीतौ देवानांवीतिर्भ- क्षणं यस्मिन्त्सदेववीतिर्यज्ञः तस्मिन् चम्वोरधिषवणफलकयोः आवच्यस्व पात्राण्याविश । वचिर्गत्यर्थः व्यत्ययेन श्यन् पूयमानः सन् ॥ २ ॥
समु᳚ प्रि॒यो मृ᳚ज्यते॒ सानो॒ अव्ये᳚ य॒शस्त᳚रो य॒शसां॒ क्षैतो᳚ अ॒स्मे ।
अ॒भि स्व᳚र॒ धन्वा᳚ पू॒यमा᳚नो यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
सम् । ऊं॒ इति᳚ । प्रि॒यः । मृ॒ज्य॒ते॒ । सानौ᳚ । अव्ये᳚ । य॒शः॑त᳚रः । य॒शसा᳚म् । क्षैतः᳚ । अ॒स्मे इति᳚ ।
अ॒भि । स्व॒र॒ । धन्व᳚ । पू॒यमा᳚नः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
यशसां यशस्विनांमध्ये यशस्तरः अतिशयेनयशस्वी क्षैतः क्षितौभवः प्रियः प्रीणयिता सोमः सानौ समुच्छ्रिते अव्ये अविमये पवित्रे अस्मे अस्मदर्थं संमृज्यते ऋत्विग्भिः परिपूयते । उ अवधारणे । पूयमानस्त्वं धन्वान्तरिक्षे अभिस्वर अभितः शब्दय यूयं पूजायां बहुवचनं हे सोम त्वं नोस्मान् स्वस्तिभिः कल्याणतमैः पालनैः सदा सर्वदा पात रक्षत पालयत ॥ ३ ॥
प्र गा᳚यता॒भ्य᳚र्चाम दे॒वान्त्सोमं᳚ हिनोत मह॒ते धना᳚य ।
स्वा॒दुः प᳚वाते॒ अति॒ वार॒मव्य॒मा सी᳚दाति क॒लशं᳚ देव॒युर्न᳚ः ॥
प्र । गा॒य॒त॒ । अ॒भि । अ॒र्चा॒म॒ । दे॒वान् । सोम᳚म् । हि॒नो॒त॒ । म॒ह॒ते । धना᳚य ।
स्वा॒दुः । प॒वा॒ते॒ । अति᳚ । वार᳚म् । अव्य᳚म् । आ । सी॒दा॒ति॒ । क॒लश᳚म् । दे॒व॒॑युः । नः॒ ॥
हेस्तोतारः प्रगायत सोमं प्रकर्षेणाभिष्टुत । तथा देवान् अभ्यर्चाम अभ्यर्चत पुरुषव्य- त्ययः । यद्वा वयं देवानभिष्टुमः यूयं सोमंस्तुतेति । किंच महते महत् प्रभूतधनाय धनं प्राप्तुं सोमं हिनोत अभिषवार्थं प्रेरयत । क्रियार्थोपपदस्यचकर्मणिस्थानिनइति धनशब्दस्य चतुर्थी । ततः स्वादुः स्वादुकरः सोमः अव्यमविभवं वारं वालं पवित्रमतिपवाते अती- त्यपवते । किंच देवयुः देवान् कामयमानः नोस्मदीयः सोमः कलशं पात्रमासीदाति आसीदति प्रविशति । उभयत्रलेट्यडागमः ॥ ४ ॥
इन्दु᳚र्दे॒वाना॒मुप᳚ स॒ख्यमा॒यन्त्स॒हस्र᳚धारः पवते॒ मदा᳚य ।
नृभि॒ः स्तवा᳚नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं᳚ मह॒ते सौभ᳚गाय ॥
इन्दुः᳚ । दे॒वाना᳚म् । उप᳚ । स॒ख्यम् । आ॒॑यन् । स॒हस्र᳚॑धारः । प॒व॒ते॒ । मदा᳚य ।
नृ॑भिः᳚ । स्तवा᳚नः । अनु᳚ । धाम᳚ । पूर्व᳚म् । अग᳚न् । इन्द्र᳚म् । म॒ह॒ते । सौभ᳚गाय ॥
देवानामिन्द्रादीनां सख्यं सखिभावं उपायन् उपगच्छन् सहस्रधारः बहुविधधारः इन्दुः सोमः मदाय देवानांमदार्थं पवते कलशादिषुक्षरति । नृभिः कर्मनेतृभिः स्तवानः स्तूयमानः सोमः पूर्वं पुरातनं धाम द्युलोकमनुगच्छति । तदेवाह—महते प्रभूताय सौभगाय सौभाग्याय इन्द्रं अगन् गच्छति । सोमे इन्द्रेण पीते सति यजमानानां महा- सौभाग्यं भवति खलु । अगन् गमेर्लुङि घसेति च्लेर्लुक् मोनोधातोरिति नत्वं ॥ ५ ॥
स्तो॒त्रे रा॒ये हरि᳚रर्षा पुना॒न इन्द्रं॒ मदो᳚ गच्छतु ते॒ भरा᳚य ।
दे॒वैर्या᳚हि स॒रथं॒ राधो॒ अच्छा᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
स्तो॒त्रे । रा॒ये । हरिः᳚ । अ॒र्ष॒ । पु॒ना॒नः । इन्द्र᳚म् । मदः᳚ । ग॒च्छ॒तु॒ । ते॒ । भरा᳚य ।
दे॒वैः । या॒हि॒ । स॒॑रथ᳚म् । राधः᳚ । अच्छ᳚ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
हे सोम हरिर्हरितवर्णः पुनानः पूयमानस्त्वं स्तोत्रे अस्माभिः क्रियमाणेसति राये- धनार्थं अर्ष आगच्छ । ततस्ते त्वदीयोमदोप्रदकारोरसः भराय भृभर्त्सने । भर्त्सयन्ति शत्रू- नत्रयोद्धारइति भरःसंग्रामः । तदर्थमिन्द्रंगच्छतु । किंच सरथं देवैः समानरथमास्थाय राधः अच्छ अस्माकं धनार्थंयाहि आगच्छ । यूयं नोस्मान् स्वस्तिभिः सदा पात त्वं रक्ष ॥ ६ ॥
प्र काव्य᳚मु॒शने᳚व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि᳚मा विवक्ति ।
महि᳚व्रत॒ः शुचि᳚बन्धुः पाव॒कः प॒दा व᳚रा॒हो अ॒भ्ये᳚ति॒ रेभ᳚न् ॥
प्र । काव्य᳚म् । उ॒शना᳚॑इव । ब्रु॒वा॒णः । दे॒वः । दे॒वाना᳚म् । जनि᳚म । वि॒व॒क्ति॒ ।
महि᳚॑व्रतः । शुचि᳚॑बन्धुः । पा॒व॒कः । प॒दा । व॒रा॒हः । अ॒भि । ए॒ति॒ । रेभ᳚न् ॥
उशनेव एतन्नामकऋषिरिव काव्यं कविकर्म स्तोत्रं ब्रुवाणः उच्चारयन् देवः स्तोता अयमृषिः वृषगणोनाम देवानामिन्द्रादीनां जनिम जन्मानि प्रविवक्ति प्रकर्षेण ब्रवीति । वचपरिभाषणे व्यत्ययेनविकरणस्य श्लुः बहुलंछंदसीतिअभ्यासस्येत्वम् । महिव्रतः प्रभूतकर्मा शुचिबन्धुः बध्नन्तिशत्रूनिति बन्धूनि तेजांसि बलानिवा दीप्ततेजस्कः पावकः पापानां शोधकः वराहः वरं च तदहः वराहः राजाहःसखिभ्यष्टजिति टच्समासान्तः । तस्मिन्न- हनि अभिषूयमाणत्वेन तद्वान् अर्शआदित्वान्मत्वर्थीयःअच् तादृशःसोमः रेभन् शब्दंकुर्वन् पदा पदानि स्थानानि पात्राणि अभ्येति अभिगच्छति । यद्वा यथाकश्चनवराहः पदा पादेन भूमिं विक्रममाणः शब्दंकरोति तद्वत् ॥ ७ ॥
प्र हं॒सास᳚स्तृ॒पलं᳚ म॒न्युमच्छा॒मादस्तं॒ वृष᳚गणा अयासुः ।
आ॒ङ्गू॒ष्यं१॒᳚ पव᳚मानं॒ सखा᳚यो दु॒र्मर्षं᳚ सा॒कं प्र व᳚दन्ति वा॒णम् ॥
प्र । हं॒सासः᳚ । तृ॒पल᳚म् । म॒न्युम् । अच्छ᳚ । अ॒मात् । अस्त᳚म् । वृष᳚॑गणाः । अ॒या॒सुः॒ ।
आ॒ङ्गू॒ष्य᳚म् । पव᳚मानम् । सखा᳚यः । दुः॒॑मर्ष᳚म् । सा॒कम् । प्र । व॒द॒न्ति॒ । वा॒णम् ॥
हंसासः शत्रुभिर्हन्यमानाः हंसाइव चरन्तोवावृषगणाः एतन्नामकाऋषयः अमात् शत्रूणां बलात् त्रासिताःसन्तः तृपलं त्ऋपलशब्दःक्षिप्रचारी तदुक्तंयास्केन—तृपलप्रभर्मा- क्षिप्रप्रहारीति । क्षिप्रप्रहारिणंमन्युं शत्रूनभिहन्यमानं सोमं अच्छ अभिलक्ष्य अस्तं यज्ञगृहं प्रायासुः प्रयासिषुः प्रगच्छन्ति । ततः सखायः स्तुत्यस्तोतृत्वलक्षणेन संबन्धेन सखिभूताः स्तोतारः आंगूष्यं सर्वैरभिगंतव्यं यद्वा घोषशब्दस्य पृषोदरादित्वादांगूषइत्यादेशः आङ् अनुनासिकश्छान्दसः स्तोत्रार्हं दुर्मर्षं शत्रुभिर्दुर्धरं दुःसहं एवंविधंसोमं पवमानमुद्दिश्य वाणं वाद्यविशेषं साकं सहैवप्रवदन्ति प्रवादयन्ति तदुपलक्षितं गानंकुर्वन्तीत्यर्थः ॥ ८ ॥
स रं᳚हत उरुगा॒यस्य᳚ जू॒तिं वृथा॒ क्रीळ᳚न्तं मिमते॒ न गावः᳚ ।
प॒री॒ण॒सं कृ᳚णुते ति॒ग्मशृ᳚ङ्गो॒ दिवा॒ हरि॒र्ददृ᳚शे॒ नक्त᳚मृ॒ज्रः ॥
सः । रं॒ह॒ते॒ । उ॒रु॒॑गा॒यस्य᳚ । जू॒तिम् । वृथा᳚ । क्रीळ᳚न्तम् । मि॒म॒ते॒ । न । गावः᳚ ।
प॒री॒ण॒सम् । कृ॒णु॒ते॒ । ति॒ग्म॑शृ᳚ङ्गः । दिवा᳚ । हरिः᳚ । ददृ᳚शे । नक्त᳚म् । ऋ॒ज्रः ॥
ससोमः रंहते अतिशीघ्रं गच्छतीत्यर्थः । उरुगायस्य बहुभिःस्तुत्यस्यात्मनोजूतिं गति- मनुसरन् तंवृथा अनायासेन क्रीळंतं विहरन्तं गच्छन्तंसोमं गावः अन्येगन्तारः नमिमते नपरिच्छिन्दन्ति तमनुगन्तुं नशक्नुवन्तीत्यर्थः । किंच तिग्मशृंगः शॄणन्तिहिंसन्ति तमांसीति श्रुंगाणि तेजांसि तीक्ष्णतेजस्कः परीणसं बहुनामैतत् बहुविधतेजः कृणुते करोति अन्तरि- क्षे वर्तप्रानोयः सोमः दिवा अहनि हरिर्हरितवर्णः ददृशे दृश्यते नप्रकाशतेइत्यर्थः । नक्तं रात्रौतु ऋज्रः ऋजुगामी विस्पष्टः प्रकाशयुक्तोदृश्यते दृशेः कर्मणिलिटिरूपं ॥ ९ ॥
इन्दु᳚र्वा॒जी प᳚वते॒ गोन्यो᳚घा॒ इन्द्रे॒ सोम॒ः सह॒ इन्व॒न्मदा᳚य ।
हन्ति॒ रक्षो॒ बाध᳚ते॒ पर्यरा᳚ती॒र्वरि᳚वः कृ॒ण्वन्वृ॒जन᳚स्य॒ राजा᳚ ॥
इन्दुः᳚ । वा॒जी । प॒व॒ते॒ । गो॑न्यो᳚घाः । इन्द्रे᳚ । सोमः᳚ । सह᳚ । इन्व᳚न् । मदा᳚य ।
हन्ति᳚ । रक्षः᳚ । बाध᳚ते । परि᳚ । अरा᳚तीः । वरि᳚वः । कृ॒ण्वन् । वृ॒जन᳚स्य । राजा᳚ ॥
इन्दुः क्षरणशीलः वाजी बलवान् गोन्योघाः गमनशीलनीचीनाग्ररससंघातः इन्द्रे स- होबलकररसं इन्वन् प्रेरयन् सोमः मदाय तस्यमदार्थं पवते क्षरति । किंच रक्षःकुलं हन्ति हिनस्ति । किंच अरातीः अरातीन् शत्रून्परिबाधते परितः संहरति । कीदृशः वरिवोवरणीयं धनं कृण्वन् स्तोतॄणां कुर्वन् वृजनस्य बलस्यराजा ईशितासोमइति ॥ १० ॥
अध॒ धार᳚या॒ मध्वा᳚ पृचा॒नस्ति॒रो रोम᳚ पवते॒ अद्रि᳚दुग्धः ।
इन्दु॒रिन्द्र᳚स्य स॒ख्यं जु᳚षा॒णो दे॒वो दे॒वस्य᳚ मत्स॒रो मदा᳚य ॥
अध᳚ । धार᳚या । मध्वा᳚ । पृ॒चा॒नः । ति॒रः । रोम᳚ । प॒व॒ते॒ । अद्रि᳚॑दुग्धः ।
इन्दुः᳚ । इन्द्र᳚स्य । स॒ख्यम् । जु॒षा॒णः । दे॒वः । दे॒वस्य᳚ । म॒त्स॒रः । मदा᳚य ॥
अधाथानन्तरं अद्रिदुग्धाः ग्रावभिर्देउग्धोभिषुतः सोमः मध्वा मदकारिण्याधारया पृ- चानः देवान् संपर्चयन् संयोजयन् रोम अविरोमभिः कृतं पवित्रं तिरस्तिरस्कृत्य व्यवधा- यकंकृत्वा पवते कलशेषु क्षरति । किंच इन्द्रस्यसख्यं सखिभावंकर्मवा जुषाणः सेवमानः देवोद्योतमानः मत्सरोमदकरइन्दुः सोमः देवस्येन्द्रस्य मदाय मदार्थं पवते क्षरति ॥ ११ ॥
अ॒भि प्रि॒याणि᳚ पवते पुना॒नो दे॒वो दे॒वान्त्स्वेन॒ रसे᳚न पृ॒ञ्चन् ।
इन्दु॒र्धर्मा᳚ण्यृतु॒था वसा᳚नो॒ दश॒ क्षिपो᳚ अव्यत॒ सानो॒ अव्ये᳚ ॥
अ॒भि । प्रि॒याणि᳚ । प॒व॒ते॒ । पु॒ना॒नः । दे॒वः । दे॒वान् । स्वेन᳚ । रसे᳚न । पृ॒ञ्चन् ।
इन्दुः᳚ । धर्मा᳚णि । ऋ॒तु॒॑था । वसा᳚नः । दश᳚ । क्षिपः᳚ । अ॒व्य॒त॒ । सानौ᳚ । अव्ये᳚ ॥
प्रियाणि प्रीणयितॄणि धर्माणि धारकाणि तेजांसि ऋतुथा कालेकाले वसान् आच्छा- दयन् इन्दुः सोमः पुनानः पूयमानः सन् अभिपवते कलशानभिलक्ष्य क्षरति । कीदृशः देवः संक्रीडनशीलः स्वेन आत्मीयेनरसेन देवानिन्द्रादीन् पृंचन् संपर्चयन् संयोजयन् तमिमं दश दशसंख्याकाः क्षिपः अंगुलिनामैतत् कर्मार्थं प्रेर्यंतइति तत्संख्याकाअंगुलयः सानौ समुच्छ्रिते अव्ये अविभवेपवित्रे अव्यत गमयन्ति यद्वा अत्र पवित्रे पूयमानंसोमं अव्यत गच्छन्ति वीगत्यादिषु लङिव्यत्ययेनात्मनेपदं ॥ १२ ॥
वृषा॒ शोणो᳚ अभि॒कनि᳚क्रद॒द्गा न॒दय᳚न्नेति पृथि॒वीमु॒त द्याम् ।
इन्द्र᳚स्येव व॒ग्नुरा शृ᳚ण्व आ॒जौ प्र᳚चे॒तय᳚न्नर्षति॒ वाच॒मेमाम् ॥
वृषा᳚ । शोणः᳚ । अ॒भि॒॑कनि᳚क्रदत् । गाः । न॒दय᳚न् । ए॒ति॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
इन्द्र᳚स्य॑इव । व॒ग्नुः । आ । शृ॒ण्वे॒ । आ॒जौ । प्र॒॑चे॒तय᳚न् । अ॒र्ष॒ति॒ । वाच᳚म् । आ । इ॒माम् ॥
शोणः शोणवर्णोवृषा कश्चिद्वृषभः गाः पशून् अभिकनिक्रदत् अभिलक्ष्य शब्दंकरोति । एवं गाः स्तुतीः विश्रयणार्थं पयसोदोग्ध्रीर्धेनूः वा अभिकनिक्रदत् अभिशब्दायमानः तदे- वाह नदयन् शब्दमुत्पादयन् सोमः पृथिवीं उतापिच द्यां एतौलोकौ एति गच्छति । किंच वग्नुः वाङ्नामैतत् तस्य वाक् सुशब्दः आजौ संग्रामे इन्द्रस्येव इन्द्रस्यशब्दइव आश्रृण्वे सर्वैः श्रूयते । ततः प्रचेतयन् आत्मानं सर्वेषां प्रज्ञापयन् इमां वाचमार्षति समं- ताद्गमयति उच्चैः शब्दायतेइत्यर्थः ॥ १३ ॥
र॒साय्य॒ः पय᳚सा॒ पिन्व᳚मान ई॒रय᳚न्नेषि॒ मधु᳚मन्तमं॒शुम् ।
पव᳚मानः संत॒निमे᳚षि कृ॒ण्वन्निन्द्रा᳚य सोम परिषि॒च्यमा᳚नः ॥
र॒साय्यः᳚ । पय᳚सा । पिन्व᳚मानः । ई॒रय᳚न् । ए॒षि॒ । मधु᳚॑मन्तम् । अं॒शुम् ।
पव᳚मानः । स॒म्॑त॒निम् । ए॒षि॒ । कृ॒ण्वन् । इन्द्रा᳚य । सो॒म॒ । प॒रि॒॑सि॒च्यमा᳚नः ॥
हे सोम रसाय्यः रसेरौणादिकआय्यप्रत्ययः । आस्वाद्यः पयसायुक्तः पिन्वमानः क्षरन् त्वं ईरयन् शब्दंप्रेरयन् मधुमन्तं माधुर्योपेतं अंशुं रसभावं एषि प्राप्नोषि । अंशुःशमष्टमा- त्रोभवतीतियास्कः । अनेन सोमरसोभिधीयते । किंच हेसोम परिषिच्यमानः अद्भिः परि षिक्तस्त्वं पवमानः पवित्रेपूयमानःसन् संतनिं तनुविस्तारे इप्रत्ययः संततांधारां कृण्वन् कुर्वन्निन्द्राय इंद्रार्थं एषि गच्छसि ॥ १४ ॥
ए॒वा प᳚वस्व मदि॒रो मदा᳚योदग्रा॒भस्य᳚ न॒मय᳚न्वध॒स्नैः ।
परि॒ वर्णं॒ भर᳚माणो॒ रुश᳚न्तं ग॒व्युर्नो᳚ अर्ष॒ परि᳚ सोम सि॒क्तः ॥
ए॒व । प॒व॒स्व॒ । म॒दि॒रः । मदा᳚य । उ॒द॒॑ग्रा॒भस्य᳚ । न॒मय᳚न् । व॒ध॒॑स्नैः ।
परि᳚ । वर्ण᳚म् । भर᳚माणः । रुश᳚न्तम् । ग॒व्युः । नः॒ । अ॒र्ष॒ । परि᳚ । सो॒म॒ । सि॒क्तः ॥
हे सोम मदिरोमदकरस्त्वं उदग्राभस्य क्रियाग्रहणंकर्तव्यमिति कर्मणः संप्रदानसंज्ञा चतु र्थ्यर्थेबहुलमितिषष्ठी । उदग्राभं उदकग्राहिणंमेघं वधस्नैः हननसाधनैरायुधैः नमयन् वृष्ट्य- र्थंप्रह्वीकुर्वन् मदाय मदार्थमेव पवस्व एवं पात्रेषुक्षर । किंच रुशंतं आरोचमानं श्वेतं वर्णं परिभरमाणः परितोबिभ्रत् सिक्तः पवित्रेसिच्यमानस्त्वं गव्युः नोस्माकं गाइच्छन् पर्यर्ष परिगच्छ ॥ १५ ॥
जु॒ष्ट्वी न᳚ इन्दो सु॒पथा᳚ सु॒गान्यु॒रौ प᳚वस्व॒ वरि᳚वांसि कृ॒ण्वन् ।
घ॒नेव॒ विष्व᳚ग्दुरि॒तानि᳚ वि॒घ्नन्नधि॒ ष्णुना᳚ धन्व॒ सानो॒ अव्ये᳚ ॥
जु॒ष्ट्वी । नः॒ । इ॒न्दो॒ इति᳚ । सु॒॑पथा᳚ । सु॒॑गानि᳚ । उ॒रौ । प॒व॒स्व॒ । वरि᳚वांसि । कृ॒ण्वन् ।
घ॒ना॑इ᳚व । विष्व᳚क् । दुः॒॑इ॒तानि᳚ । वि॒॑घ्नन् । अधि᳚ । स्नुना᳚ । ध॒न्व॒ । सानौ᳚ । अव्ये᳚ ॥
हे इन्दो दीप्त पवमान जुष्ट्वी स्नात्व्यादयश्चेतिनिपातितः स्तुतिभिः प्रीतोभूत्वा नो- स्माकं सुपथा सुपथानि वैदिकमार्गान् तथा वरिवांसि वरणीयानि धनानि सुगानि सुग- मनानि सुप्राप्तव्यानि कृण्वन् कुर्वन् । उरौ विस्तीर्णे द्रोणकलशे पवस्व क्षर । किंच घनेव घनीभूतेन लोहमयेनायुधेनेव विष्वक् सर्वतोदुरितानि दुःप्राप्तव्यानि रक्षांसि विघ्नन् हिंसन् सानौ समुच्छ्रितेदेशे अव्येअविभवे स्नुना स्रवता धारासंघेन अधिधन्व अधिगच्छ । धविर्गत्यर्थः ॥ १६ ॥
वृ॒ष्टिं नो᳚ अर्ष दि॒व्यां जि᳚ग॒त्नुमिळा᳚वतीं शं॒गयीं᳚ जी॒रदा᳚नुम् ।
स्तुके᳚व वी॒ता ध᳚न्वा विचि॒न्वन्बन्धू{4}᳚रि॒मा{4} अव᳚रा{4} इन्दो वा॒यून् ॥
वृ॒ष्टिम् । नः॒ । अ॒र्ष॒ । दि॒व्याम् । जि॒ग॒त्नुम् । इळा᳚॑वतीम् । श॒म्॑गयी᳚म् । जी॒र॑दा᳚नुम् ।
स्तुका᳚॑इव । वी॒ता । ध॒न्व॒ । वि॒॑चि॒न्वन् । बन्धू᳚न् । इ॒मान् । अव᳚रान् । इ॒न्दो॒ इति᳚ । वा॒यून् ॥
हे सोम नोस्माकं वृष्टिं अर्ष गमय । कीदृशीं दिव्यां दिविभवां जिगत्नुं गमनशीलं इरावतीं अन्नवतीं शंगयीं सूखस्यनिवासभूतां जीरदानुं क्षिप्रदानोपेताम् । किंच हे इन्दो त्वं स्तुकेववीता कांतानि स्तुकशब्दोपत्यवचनः अपत्यानि यथाविचिनोषि तद्वत् बन्धून् स्तुत्यस्तोतृत्वेन बन्धुभूतान् अवरान् अवरदेशेस्थितान् पर्थिवान् वायून् त्वां अभिगच्छ्त इमानस्मान् विचिन्वन् धनादिप्रदानार्थं गवेषमाणःसन् धन्व गच्छ ॥ १७ ॥
ग्र॒न्थिं न वि ष्य᳚ ग्रथि॒तं पु᳚ना॒न ऋ॒जुं च᳚ गा॒तुं वृ᳚जि॒नं च᳚ सोम ।
अत्यो॒ न क्र᳚दो॒ हरि॒रा सृ᳚जा॒नो मर्यो᳚ देव धन्व प॒स्त्या᳚वान् ॥
ग्र॒न्थिम् । न । वि । स्य॒ । ग्र॒थि॒तम् । पु॒ना॒नः । ऋ॒जुम् । च॒ । गा॒तुम् । वृ॒जि॒नम् । च॒ । सो॒म॒ ।
अत्यः᳚ । न । क्र॒दः॒ । हरिः᳚ । आ । सृ॒जा॒नः । मर्यः᳚ । दे॒व॒ । ध॒न्व॒ । प॒स्त्य᳚॑वान् ॥
पुनानः पूयमानस्त्वं ग्रथितं पापैर्बद्धं मां विष्य मुंच पापेभ्योविश्लेषय । कथमिव ग्रं- थिंन यथाकश्चित् ग्रंथिविश्लेषयति षोन्तकर्मणीति अस्यलोटिरूपम् । किंच हेसोम त्वं ऋजुं अवक्रं गातुं मार्गं च वृजिनं बलं च मह्यं देहि । हरिर्हरितवर्णस्त्वं आसृजानः पात्रेष्वा- सृज्यमानःसन् अत्योन अतनशीलोश्वइव क्रदः क्रंदसि शब्दायसे । किंच हेदेव मर्त्योमनुष्य हितो मारकोहिंसकोवा शत्रूणां पस्त्यवान् पस्त्यंगृहं तद्वांस्त्वं धन्व मामभिगच्छ कल- शान्वा ॥ १८ ॥
जुष्टो॒ मदा᳚य दे॒वता᳚त इन्दो॒ परि॒ ष्णुना᳚ धन्व॒ सानो॒ अव्ये᳚ ।
स॒हस्र᳚धारः सुर॒भिरद᳚ब्ध॒ः परि᳚ स्रव॒ वाज᳚सातौ नृ॒षह्ये᳚ ॥
जुष्टः᳚ । मदा᳚य । दे॒व॑ता᳚ते । इ॒न्दो॒ इति᳚ । परि᳚ । स्नुना᳚ । ध॒न्व॒ । सानौ᳚ । अव्ये᳚ ।
स॒हस्र᳚॑धारः । सु॒॑र॒भिः । अद᳚ब्धः । परि᳚ । स्र॒व॒ । वाज᳚॑सातौ । नृ॒॑सह्ये᳚ ॥
हेइन्दो मदाय जुष्टः पर्याप्तस्त्वं देवताते देवैस्ततेयज्ञे सानौ समुच्छ्रिते अव्ये अविभ- वे स्रुनाश्रयणशीलेन धारासंघेन सह परिधन्व परिगच्छ सहस्रधारः बहुधारोपेतः सुरभिः सुगन्धिभिः त्वं अदब्धः नकैश्चित् हिंसितः सन् वाजसातौ अन्नलाभाय निमित्ते नृसह्ये नृभिः सोढव्येयुद्धे परिस्रव परितोगच्छ ॥ १९ ॥
अ॒र॒श्मानो॒ ये᳚॑र॒था अयु᳚क्ता॒ अत्या᳚सो॒ न स᳚सृजा॒नास᳚ आ॒जौ ।
ए॒ते शु॒क्रासो᳚ धन्वन्ति॒ सोमा॒ देवा᳚स॒स्ता{4} उप᳚ याता॒ पिब᳚ध्यै ॥
अ॒र॒श्मानः᳚ । ये । अ॒र॒थाः । अयु᳚क्ताः । अत्या᳚सः । न । स॒सृ॒जा॒नासः᳚ । आ॒जौ ।
ए॒ते । शु॒क्रासः᳚ । ध॒न्व॒न्ति॒ । सोमाः᳚ । देवा᳚सः । तान् । उप᳚ । या॒त॒ । पिब᳚ध्यै ॥
अरश्मानोरश्मिवर्जिता रज्जुवर्जिताइतियावत् अरथारथवर्जिताः अयुक्ताः कुत्रापिननि- युक्ताः अबद्धाइत्यर्थः एतादृशाये आजौ युद्धे ससृजानासः सृज्यमानाः अत्यासोन अश्वा- यथा त्वरयालक्ष्यं गच्छन्ति तद्वत् आजौ अजन्ति कर्मकरणार्थमृत्विजोत्रेति आजिर्यज्ञस्त- स्मिन् सृज्यमानाः शुक्रासः शुक्रादीप्यमाना एतेसोमाः धन्वन्ति क्षिप्रं कलशानभिगच्छन्ति । अथप्रत्यक्षः हेदेवासोदेवाः तानागच्छतः सोमान् पिबध्यैपानायउपयातउपगच्छत ॥ २० ॥
ए॒वा न᳚ इन्दो अ॒भि दे॒ववी᳚तिं॒ परि᳚ स्रव॒ नभो॒ अर्ण᳚श्च॒मूषु᳚ ।
सोमो᳚ अ॒स्मभ्यं॒ काम्यं᳚ बृ॒हन्तं᳚ र॒यिं द᳚दातु वी॒रव᳚न्तमु॒ग्रम् ॥
ए॒व । नः॒ । इ॒न्दो॒ इति᳚ । अ॒भि । दे॒व॑वी᳚तिम् । परि᳚ । स्र॒व॒ । नभः᳚ । अर्णः᳚ । च॒मूषु᳚ ।
सोमः᳚ । अ॒स्मभ्य᳚म् । काम्य᳚म् । बृ॒हन्त᳚म् । र॒यिम् । द॒दा॒तु॒ । वी॒र॑व᳚न्तम् । उ॒ग्रम् ॥
हे इन्दो सोम नोस्मदीयमेव देववीतिं देवानांवीतिर्भक्षणं गमनंवा यस्मिन् देववीति- र्यज्ञः तमभिलक्ष्य नभोनभसोद्युलोकात् अर्णउदकं अनेनपव् इत्रान्निर्गतः सोमरसोभिधीयते तं रसं चमूषु चमसेषु परिस्रव परितःक्षर । ततः सोमः काम्यं काम्यमानं बृहन्तं प्रवृद्धं वीरवन्तं पुत्रयुक्तं उग्रमुद्गूर्णबलं रयिं धनं अस्मभ्यं ददातु प्रयच्छतु ॥ २१ ॥
तक्ष॒द्यदी॒ मन᳚सो॒ वेन᳚तो॒ वाग्ज्येष्ठ᳚स्य वा॒ धर्म᳚णि॒ क्षोरनी᳚के ।
आदी᳚माय॒न्वर॒मा वा᳚वशा॒ना जुष्टं॒ पतिं᳚ क॒लशे॒ गाव॒ इन्दु᳚म् ॥
तक्ष᳚त् । यदि᳚ । मन᳚सः । वेन᳚तः । वाक् । ज्येष्ठ᳚स्य । वा॒ । धर्म᳚णि । क्षोः । अनी᳚के ।
आत् । ई॒म् । आ॒य॒न् । वर᳚म् । आ । वा॒व॒शा॒नाः । जुष्ट᳚म् । पति᳚म् । क॒लशे᳚ । गावः᳚ । इन्दु᳚म् ॥
वेनतः वेनोवेनतेःकान्तिकर्मणइतियास्कः । कामयमानस्य मनसः मन्यतेःस्तुतिकर्मणः स्तोतुर्वाक् स्तुतिलक्षणायद्येनंतक्षत् संस्करेति वाशब्दउपमार्थे यथा धर्मणि निमित्तात् कर्मसंयोगइतिसप्तमी धारकं योगक्षेमविषयं कर्मोद्दिश्य क्षोःशब्दायमानस्य अनीके संग्राम- मुखे तत्र स्थितस्य जानपदिकस्य वाक् ज्येष्ठस्य द्वितीयार्थेषष्ठी प्रशस्यतमं राजानं यथा- स्तौति तथास्तोतुर्वाक् सोमंस्तौतीत्यर्थः । आदनंतरमेव वरं वरणीयं जुष्टं देवानां मदाय- पर्याप्ते पतिं सर्वस्य पालकं कलशे स्थितं इन्दुं ईमेनं सोमं वावशानाः कामयमानाः गावआयन् पयसा स्वीये नमि श्रयितुमागच्छंति ॥ २२ ॥
प्र दा᳚नु॒दो दि॒व्यो दा᳚नुपि॒न्व ऋ॒तमृ॒ताय᳚ पवते सुमे॒धाः ।
ध॒र्मा भु᳚वद्वृज॒न्य᳚स्य॒ राजा॒ प्र र॒श्मिभि᳚र्द॒शभि᳚र्भारि॒ भूम᳚ ॥
प्र । दा॒नु॒॑दः । दि॒व्यः । दा॒नु॒॑पि॒न्वः । ऋ॒तम् । ऋ॒ताय᳚ । प॒व॒ते॒ । सु॒॑मे॒धाः ।
ध॒र्मा । भु॒व॒त् । वृ॒ज॒न्य᳚स्य । राजा᳚ । प्र । र॒श्मि॑भिः᳚ । द॒श॑भिः᳚ । भा॒रि॒ । भूम᳚ ॥
दिव्योदिविभवः दानुदः दातृभ्योधनादीनांदाता तदेवाह दानुपिन्वः पिविसेचने कर्मण्यणित्यण् दातृभ्यः कामानां रक्षयिता सुमेधाः शोभनप्रज्ञः सोमः ऋताय सत्यभूता- येन्द्राय तं सत्यभूतमात्मीयं रसंपवते प्रकर्षेण क्षरति । राजा दीप्यमानः सोमः वृजन्यस्य साधुबलस्य धर्मा धारयिता भुवद्भवति । किंच दशभिः एतत्संज्ञकाभीरश्मिभिः कर्म- करणार्थमश्नुवानाभिः अंगुलिभिः भूम प्रभूतं प्रभारि प्रभार्यते चिणिरूपं ॥ २३ ॥
प॒वित्रे᳚भि॒ः पव᳚मानो नृ॒चक्षा॒ राजा᳚ दे॒वाना᳚मु॒त मर्त्या᳚नाम् ।
द्वि॒ता भु᳚वद्रयि॒पती᳚ रयी॒णामृ॒तं भ᳚र॒त्सुभृ᳚तं॒ चार्विन्दु᳚ः ॥
प॒वित्रे᳚भिः । पव᳚मानः । नृ॒॑चक्षाः᳚ । राजा᳚ । दे॒वाना᳚म् । उ॒त । मर्त्या᳚नाम् ।
द्वि॒ता । भु॒व॒त् । र॒यि॒॑पतिः᳚ । र॒यी॒णाम् । ऋ॒तम् । भ॒र॒त् । सु॑भृ᳚तम् । चारु᳚ । इन्दुः᳚ ॥
पवित्रेभिः पवित्रैः पवमानः पूयमानः नृचक्षाः नृणांफलाफलयोः द्रष्टा अथ देवाना- मिन्द्रादीनां उतापिच मर्त्यानां मनुष्याणां एवमुभयेषां जनानां राजा रयिपतिः धनस्य- पतिः नत्वल्पस्यपतिः किंतु रयीणां बहूनां धनानांस्वामी । वृत्यवृत्तिभ्यांस्वामित्वं बाहु- ल्यंच विवक्ष्यते । ईदृशः सोमः द्विता द्विधा देवेष्वपिच मनुष्येषु भुवत् भवति । सोय- मिन्दुः सोमः सुभृतं संभृतं चारु कल्याणं ऋतमुदकं भरत् बिभर्ति ॥ २४ ॥
अर्वा{4}᳚ इव॒ श्रव᳚से सा॒तिमच्छेन्द्र᳚स्य वा॒योर॒भि वी॒तिम᳚र्ष ।
स नः᳚ स॒हस्रा᳚ बृह॒तीरिषो᳚ दा॒ भवा᳚ सोम द्रविणो॒वित्पु᳚ना॒नः ॥
अर्वा᳚न्॑इव । श्रव᳚से । सा॒तिम् । अच्छ᳚ । इन्द्र᳚स्य । वा॒योः । अ॒भि । वी॒तिम् । अ॒र्ष॒ ।
सः । नः॒ । स॒हस्रा᳚ । बृ॒ह॒तीः । इषः᳚ । दाः॒ । भव᳚ । सो॒म॒ । द्र॒वि॒णः॒॑वित् । पु॒ना॒नः ॥
हेसोम अन्नार्थं युद्धे अर्वानिव अश्वोयथा गच्छति तद्वत् त्वं श्रवसे अस्माकमन्नार्थं तथा सातिमच्छ धनलाभंप्रति इन्द्रस्य वायोश्ववीतिं पानमभ्यर्ष अभिगच्छ । ऎन्द्रवाय- वग्रहे हि इन्द्रवायू सह सोमंपिबतइति सहोपादानम् । सत्वं सहस्रा सहस्राणि बहुविधा- नि बृहतीः बृंहितानि प्रवृद्धानि इषोन्नानि नोस्मभ्यं दाः प्रयच्छ । हे सोम पुनानः पूय- मानस्त्वं नोस्मभ्यं द्रविणोवित् धनस्य लंभयिता भव । द्रविणशब्दात्सर्वप्रातिपदिकेभ्यो- लालसायांसुग्वक्तव्यइति सुगागमः ॥ २५ ॥
दे॒वा॒व्यो᳚ नः परिषि॒च्यमा᳚ना॒ः क्षयं᳚ सु॒वीरं᳚ धन्वन्तु॒ सोमा᳚ः ।
आ॒य॒ज्यवः᳚ सुम॒तिं वि॒श्ववा᳚रा॒ होता᳚रो॒ न दि᳚वि॒यजो᳚ म॒न्द्रत᳚माः ॥
दे॒व॒॑अ॒व्यः᳚᳚ । नः॒ । प॒रि॒॑सि॒च्यमा᳚नाः । क्षय᳚म् । सु॒॑वीर᳚म् । ध॒न्व॒न्तु॒ । सोमाः᳚ ।
आ॒॑य॒ज्यवः᳚ । सु॒॑म॒तिम् । वि॒श्व॑वा᳚राः । होता᳚रः । न । दि॒वि॒॑यजः᳚ । म॒न्द्र॑त᳚माः ॥
देवाव्यः अवतेस्तर्पणार्थस्य अवितृस्तॄतन्त्रिभ्यईरिति ईप्रत्ययः । उदात्तस्वरितयो र्यण- इति जसःस्वरितत्वम् । देवानां तर्पयितारः परिषिच्यमानाः परितः पात्रेषु सिच्यमानाः सोमाः नोस्माकं सुवीरंशोभनपुत्रं क्षयं गृहं धन्वन्तु प्रेरयन्तु । कीदृशाः सुमतिं शोभन- मतिं यजमानं आयज्यवः यष्टुमिच्छवः विश्ववाराः विश्वैर्वरणीयाः होतारोन होतारोयथा देवानिन्द्रादीन् स्तुवन्ति एवं दिवियजः दिवि द्युलोकस्थितानिन्द्रादीन् देवान् यजन्तः । दिव् शब्दे तत्पुरुषेकृतिबहुलमिति सप्तम्याअलुक् । मन्द्रतमाः अत्यन्तंमदकराः ॥ २६ ॥
ए॒वा दे᳚व दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर᳚से देव॒पानः᳚ ।
म॒हश्चि॒द्धि ष्मसि᳚ हि॒ताः स᳚म॒र्ये कृ॒धि सु᳚ष्ठा॒ने रोद᳚सी पुना॒नः ॥
ए॒व । दे॒व॒ । दे॒व॑ता᳚ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर᳚से । दे॒व॒॑पानः᳚ ।
म॒हः । चि॒त् । हि । स्मसि᳚ । हि॒ताः । स॒॑म॒र्ये । कृ॒धि । सु॒॑स्था॒ने । रोद᳚सी॒ इति᳚ । पु॒ना॒नः ॥
हेदेव द्योतमान स्तोतव्य वा हेसोम देवपानः देवैः पातव्यस्त्वं देवताते देवैस्तते वित ते यज्ञे महे महते प्सरसे भक्षणाय देवानांपानाय एव एवं पवस्व क्षर । ततोवयं हिताः त्वयाप्रेरिताः सन्तः समर्ये मरणधर्मरहिते संग्रामे महश्चित् महतोबलाधिकानपि शत्रून् स्मसिहि अभिभवेम खलु । किंच पुनानः पूयमानस्त्वं रोदसी द्यावापृथिव्यौ सुस्थाने अस्माकं शोभनावासस्थाने सत्यौ कृधि कुरु ॥ २७ ॥
अश्वो॒ नो क्र᳚दो॒ वृष᳚भिर्युजा॒नः सिं॒हो न भी॒मो मन᳚सो॒ जवी᳚यान् ।
अ॒र्वा॒चीनै᳚ः प॒थिभि॒र्ये रजि᳚ष्ठा॒ आ प᳚वस्व सौमन॒सं न᳚ इन्दो ॥
अश्वः᳚ । न । क्र॒दः॒ । वृष᳚॑भिः । यु॒जा॒नः । सिं॒हः । न । भी॒मः । मन᳚सः । जवी᳚यान् ।
अ॒र्वा॒चीनैः᳚ । प॒थि॑भिः᳚ । ये । रजि᳚ष्ठाः । आ । प॒व॒स्व॒ । सौ॒म॒न॒सम् । नः॒ । इ॒न्दो॒ इति᳚ ॥
हेसोम वृषभिरृत्विग्भिः सोममभिषुण्वद्भिः युजानोयोज्यमानस्त्वं अश्वोन अश्वइव क्रदः क्रन्दसि शब्दायसे । कीदृशाः सिंहोन सिंहइव भीमः शात्रूणां भयंकरः तथा मनसो पि जवीयान् वेगवत्तरः अर्वाचीनैः अभिमुखैः पथिभिर्मार्गैः येमार्गाः रजिष्ठाः अत्यन्तमृ- जवोभवन्ति विभाषर्जोश्छान्दसीतिऋकारस्यरादेशः । हेइन्दो दीप्यमान सोम तैर्मार्गैः नोस्माकं सौमनसं सौमनस्यं आपवस्व आप्रापय ॥ २८ ॥
श॒तं धारा᳚ दे॒वजा᳚ता असृग्रन्त्स॒हस्र᳚मेनाः क॒वयो᳚ मृजन्ति ।
इन्दो᳚ स॒नित्रं᳚ दि॒व आ प᳚वस्व पुरए॒तासि᳚ मह॒तो धन᳚स्य ॥
श॒तम् । धाराः᳚ । दे॒व॑जा᳚ताः । अ॒सृ॒ग्र॒न् । स॒हस्र᳚म् । ए॒नाः॒ । क॒वयः᳚ । मृ॒ज॒न्ति॒ ।
इन्दो॒ इति᳚ । स॒नित्र᳚म् । दि॒वः । आ । प॒व॒स्व॒ । पु॒रः॒॑ए॒ता । अ॒सि॒ । म॒ह॒तः । धन᳚स्य ॥
हे सोम देवजाताः देवार्थं प्रादुर्भूताः शतं शतसंख्याकाः त्वदीयाधाराः असृग्रन् सृज्य- न्ते । ततः कवयः क्रान्तदर्शिनः ऋत्विजः सहस्रं बहुविधाः एनाः त्वदीयाधाराः मृजन्ति अलंकुर्वन्ति यद्वा सहस्रमनेकधाम्ऋजन्ति शोधयन्ति । हेइन्दो सनित्रं भजनसाधनं दिवो द्युलोत् अस्माकं पुत्रादीनांच आपवस्व आप्रापय । कुतोस्यधनमितिचेत् तत्राह महतः प्र- भूतधनस्य पुरएता पुरतोगंतासि भवसि तस्माद्देहि इति ॥ २९ ॥
दि॒वो न सर्गा᳚ अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि᳚नाति॒ धीरः᳚ ।
पि॒तुर्न पु॒त्रः क्रतु᳚भिर्यता॒न आ प᳚वस्व वि॒शे अ॒स्या अजी᳚तिम् ॥
दि॒वः । न । सर्गाः᳚ । अ॒स॒सृ॒ग्र॒म् । अह्ना᳚म् । राजा᳚ । न । मि॒त्रम् । प्र । मि॒ना॒ति॒ । धीरः᳚ ।
पि॒तुः । न । पु॒त्रः । क्रतु᳚॑भिः । य॒ता॒नः । आ । प॒व॒स्व॒ । वि॒शे । अ॒स्यै । अजी᳚तिम् ॥
दिवोन यथादिवोद्योतमानस्य आदित्यस्याह्नां संबन्धिनः सर्गारश्मयः अससृग्रं विसृ- ज्यन्ते तद्वत् सोमस्य सर्गाः सृज्यन्ते इतिसर्गाधाराः विसृज्यन्ते सृजेर्व्यत्ययेनकर्मार्थेलङि- बहुलंछन्दसीतिशस्यश्लुः झेरमादेशश्छांदसः । धीरः प्राज्ञोराजा अयंसोमः मित्रं सखायं नप्रमिनाति नहिनस्ति क्रतुभिः कर्मभिर्यतानोयतमानः पुत्रः पितुर्न पितुर्यथा अपराभवं- करोति तद्वत् कर्मभिर्यतमानस्त्वं अस्यै विशे प्रजायै अजीतिं अपराजितिं अपराभवं आप वस्व आप्रापय यथा नपराजिताभवन्ति तथाकुर्वित्यर्थः ॥ ३० ॥
प्र ते॒ धारा॒ मधु᳚मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या᳚न् ।
पव᳚मान॒ पव᳚से॒ धाम॒ गोनां᳚ जज्ञा॒नः सूर्य᳚मपिन्वो अ॒र्कैः ॥
प्र । ते॒ । धाराः᳚ । मधु᳚॑मतीः । अ॒सृ॒ग्र॒न् । वारा᳚न् । यत् । पू॒तः । अ॒ति॒॑एषि᳚ । अव्या᳚न् ।
पव᳚मान । पव᳚से । धाम᳚ । गोना᳚म् । ज॒ज्ञा॒नः । सूर्य᳚म् । अ॒पि॒न्वः॒ । अ॒र्कैः ॥
ते तव स्वभूता मधुमतीः मधुगत्योधाराः प्रासृग्रन् तदाप्रसृज्यन्ते यद्यदा पूतोवसती- वरीभिः त्वं अव्यानविभवान् वारान् वालान् पवित्राण्यत्येषि अतीत्य गच्छसि । किंच हेपवमान गोनां गवांधान धारकं पयोलक्षीकृत्य पवसे ततः जज्ञानः जायमानस्त्वं अर्कैर र्चनीयैः स्वतेजोभिः सूर्यमादित्यमपिन्वः पूरयसि ॥ ३१ ॥
कनि᳚क्रद॒दनु॒ पन्था᳚मृ॒तस्य᳚ शु॒क्रो वि भा᳚स्य॒मृत᳚स्य॒ धाम᳚ ।
स इन्द्रा᳚य पवसे मत्स॒रवा᳚न्हिन्वा॒नो वाचं᳚ म॒तिभि᳚ः कवी॒नाम् ॥
कनि᳚क्रदत् । अनु᳚ । पन्था᳚म् । ऋ॒तस्य᳚ । शु॒क्रः । वि । भा॒सि॒ । अ॒मृत᳚स्य । धाम᳚ ।
सः । इन्द्रा᳚य । प॒व॒से॒ । म॒त्स॒र॑वा᳚न् । हि॒न्वा॒नः । वाच᳚म् । म॒ति॑भिः᳚ । क॒वी॒नाम् ॥
अभिषूयमाणः सोमः ऋतस्य सत्यभूतस्य यज्ञस्य पंथां पंथानं मार्गमनु कनिक्रदत् पु- नःपुनः शब्दायते । अथप्रत्यक्षः अमृतस्यामरणधर्मस्य धाम स्थानभूतः मरणरहितइत्यर्थः । तादृशः शुक्रः शुक्लवर्णः त्वं विभासि विशेषेणराजसि मत्सरवान् मदकररसयुक्तः सत्वं इन्द्रायेन्द्रार्थं पवसे क्षरसि । कीदृशः कवीनां स्तोतॄणां मतिभिः सह वाचं शब्दं हिन्वानः प्रेरयन् पवसे ॥ ३२ ॥
दि॒व्यः सु᳚प॒र्णो॑व᳚ चक्षि सोम॒ पिन्व॒न्धारा॒ः कर्म᳚णा दे॒ववी᳚तौ ।
एन्दो᳚ विश क॒लशं᳚ सोम॒धानं॒ क्रन्द᳚न्निहि॒ सूर्य॒स्योप᳚ र॒श्मिम् ॥
दि॒व्यः । सु॒॑प॒र्णः । अव᳚ । च॒क्षि॒ । सो॒म॒ । पिन्व᳚न् । धाराः᳚ । कर्म᳚णा । दे॒व॑वी᳚तौ ।
आ । इ॒न्दो॒ इति᳚ । वि॒श॒ । क॒लश᳚म् । सो॒म॒॑धान᳚म् । क्रन्द᳚न् । इ॒हि॒ । सूर्य᳚स्य । उप᳚ । र॒श्मिम् ॥
हे सोम दिव्योदिविभवः सुपर्णः सुपतनस्त्वं अवचक्षि अवस्तात् पश्य च । चष्टेर्लटि- सिपिव्यत्ययेनपरस्मैपदम् । किंकुर्वन् देववीतौ देवानां हविर्भक्षणस्थानेयज्ञे कर्मणा धाराः पिन्वन् क्षरन् । किंच हे इन्दो सोमधानं कलशं आविश क्रन्दन् शब्दायमानस्त्वं सूर्यस्य प्रेरकस्यादित्यस्य रश्मिंकान्तिमुपोहि उपगच्छ ॥ ३३ ॥
ति॒स्रो वाच᳚ ईरयति॒ प्र वह्नि᳚रृ॒तस्य᳚ धी॒तिं ब्रह्म᳚णो मनी॒षाम् ।
गावो᳚ यन्ति॒ गोप᳚तिं पृ॒च्छमा᳚ना॒ः सोमं᳚ यन्ति म॒तयो᳚ वावशा॒नाः ॥
ति॒स्रः । वाचः᳚ । ई॒र॒य॒ति॒ । प्र । वह्निः᳚ । ऋ॒तस्य᳚ । धी॒तिम् । ब्रह्म᳚णः । म॒नी॒षाम् ।
गावः᳚ । य॒न्ति॒ । गो॑प᳚तिम् । पृ॒च्छमा᳚नाः । सोम᳚म् । य॒न्ति॒ । म॒तयः᳚ । वा॒व॒शा॒नाः ॥
वह्निर्वोढा यजमानः तिस्रोवाचः ऋग्यजुःसामात्मिकाः स्तुतीः प्रेरयति । तथा ऋत- स्य यज्ञस्यधीतिं धारयित्रीं ब्रह्मणःपरिवृढस्य सोमस्य मनीषां मनसईशित्रीं कल्याणीं वाचं च प्रेरयति । किंच गोपतिं वृषभंयथा गावोभिगच्छन्ति तद्वत् । गवांस्वामिनं सोमं गावः पृच्छमानाः पृच्छंत्यः सत्योयन्ति स्वपयसामिश्रयितुमभिगच्छन्ति । तथा वावशानाः कामयमानाः मतयः स्तोतारः सोमं यन्ति स्तोतुमभिगच्छन्ति ॥ ३४ ॥
सोमं॒ गावो᳚ धे॒नवो᳚ वावशा॒नाः सोमं॒ विप्रा᳚ म॒तिभि᳚ः पृ॒च्छमा᳚नाः ।
सोमः᳚ सु॒तः पू᳚यते अ॒ज्यमा᳚न॒ः सोमे᳚ अ॒र्कास्त्रि॒ष्टुभ॒ः सं न᳚वन्ते ॥
सोम᳚म् । गावः᳚ । धे॒नवः᳚ । वा॒व॒शा॒नाः । सोम᳚म् । विप्राः᳚ । म॒ति॑भिः᳚ । पृ॒च्छमा᳚नाः ।
सोमः᳚ । सु॒तः । पू॒य॒ते॒ । अ॒ज्यमा᳚नः । सोमे᳚ । अ॒र्काः । त्रि॒॑स्तुभः᳚ । सम् । न॒व॒न्ते॒ ॥
धेनवः प्रीणयित्र्योगावः सोमं वावशानाः कामयमानाभवन्तिविप्रामेधाविनः स्तोतारः मतिभिः पृच्छमानाः पृच्छन्तोभवन्ति । अज्यमानः गोभिः सिच्यमानः सुतोभिषुतः सोमः ऋत्विग्भिः परिपूयते । तथा त्रिष्टुभः त्रिष्टुब्रूपाः अर्काः अस्माभिः क्रियमाणाः एतेमंत्राः सोमे संनवन्ते संगच्छन्ते ॥ ३५ ॥
ए॒वा नः᳚ सोम परिषि॒च्यमा᳚न॒ आ प᳚वस्व पू॒यमा᳚नः स्व॒स्ति ।
इन्द्र॒मा वि᳚श बृह॒ता रवे᳚ण व॒र्धया॒ वाचं᳚ ज॒नया॒ पुरं᳚धिम् ॥
ए॒व । नः॒ । सो॒म॒ । प॒रि॒॑सि॒च्यमा᳚नः । आ । प॒व॒स्व॒ । पू॒यमा᳚नः । स्व॒स्ति ।
इन्द्र᳚म् । आ । वि॒श॒ । बृ॒ह॒ता । रवे᳚ण । व॒र्धय᳚ । वाच᳚म् । ज॒नय᳚ । पुर᳚म्॑धिम् ॥
हेसोम परिषिच्यमानः परितः पात्रेषु सिच्यमानः पूयमानस्त्वं नोस्माकमेव स्वस्ति अविनाशमापवस्व आप्रापय । किंच बृहता महता रवेण शब्देनसह इन्द्रमाविश प्रविश तथा वाचं स्तुतिलक्षणां वर्धय । किंच पुरंधिं बहुधियं प्रज्ञानं जनय अस्मभ्यं उत्पादय । वाक्यभेदादनिघातः ॥ ३६ ॥
आ जागृ᳚वि॒र्विप्र᳚ ऋ॒ता म᳚ती॒नां सोमः᳚ पुना॒नो अ᳚सदच्च॒मूषु᳚ ।
सप᳚न्ति॒ यं मि᳚थु॒नासो॒ निका᳚मा अध्व॒र्यवो᳚ रथि॒रासः᳚ सु॒हस्ता᳚ः ॥
आ । जागृ᳚विः । विप्रः᳚ । ऋ॒ता । म॒ती॒नाम् । सोमः᳚ । पु॒ना॒नः । अ॒स॒द॒त् । च॒मूषु᳚ ।
सप᳚न्ति । यम् । मि॒थु॒नासः᳚ । नि॑का᳚माः । अ॒ध्व॒र्यवः᳚ । र॒थि॒रासः᳚ । सु॒॑हस्ताः᳚ ॥
जागृविर्जागरणशीलः ऋता सुपांसुलुगितिषष्ठ्याआकारः । ऋतानां सत्यानां मतीनां स्तुतीनां विप्रोज्ञाता ससोमः पुनानः पूयमानःसन् चमूषु चमसेष्वासदत् आसीदति । मिथुनासः परस्परंसंगताः निकामाः नितरांकामयमानाः रथिरासः यज्ञस्यनेतारः सुहस्ताः कल्याणपाणयः अध्वर्यवः पवित्रे यं सोमंसपन्ति स्पृशन्ति । षपसमवाये । सपतिःस्पृश- तिकर्मेतिनैरुक्ताः ॥ ३७ ॥
स पु᳚ना॒न उप॒ सूरे॒ न धातोभे अ᳚प्रा॒ रोद᳚सी॒ वि ष आ᳚वः ।
प्रि॒या चि॒द्यस्य᳚ प्रिय॒सास᳚ ऊ॒ती स तू धनं᳚ का॒रिणे॒ न प्र यं᳚सत् ॥
सः । पु॒ना॒नः । उप᳚ । सूरे᳚ । न । धाता᳚ । आ । उ॒भे इति᳚ । अ॒प्राः॒ । रोद᳚सी॒ इति᳚ । वि । सः । आ॒व॒रित्या᳚वः ।
प्रि॒या । चि॒त् । यस्य᳚ । प्रि॒य॒सासः᳚ । ऊ॒ती । सः । तु । धन᳚म् । का॒रिणे᳚ । न । प्र । यं॒स॒त् ॥
पुनानः पूयमानः ससोमः इन्द्रे उपगच्छति । तत्रदृष्टन्तः—सूरेन यथा सूर्ये धाता संवत्सरउपगच्छति । ससंवत्सरोविधातारम् । संवत्सरेणैवास्मैप्रजाःप्रजनयतीत्याम्नानात् । किंचोभेरोदसी द्यावापृथिव्यौ आप्राः स्वमहिम्ना आपूरयति । तथा ससोमः व्यावः स्व- तेजसा तमांसि विवृणोति । वृणोतेर्मंत्रेघसेतिच्लेर्लुक् छन्दस्यपिदृश्यतेइत्यडागमः पूर्वपदा- दितिसइत्यस्यसांहितिकंषत्वम् । प्रिया षष्ठ्याआकारः प्रियस्य यस्यसोमस्य यद्वा प्रियाणि प्रयच्छतः यस्यसोमस्य प्रियसासः अत्यन्तं प्रियतमाधाराः ऊती रक्षणाय भवन्ति स तु क्षिप्रं अस्मभ्यं धनं प्रयंसत् प्रयच्छतु । यच्छतेर्लेटिसिप्यडागमः । तत्रदृष्टान्तः—कारिणेन यथा कारिणे च कृतकाय भृतिं प्रयच्छन्ति तद्वत् ॥ ३८ ॥
स व᳚र्धि॒ता वर्ध᳚नः पू॒यमा᳚न॒ः सोमो᳚ मी॒ढ्वा{4} अ॒भि नो॒ ज्योति᳚षावीत् ।
येना᳚ न॒ः पूर्वे᳚ पि॒तरः᳚ पद॒ज्ञाः स्व॒र्विदो᳚ अ॒भि गा अद्रि᳚मु॒ष्णन् ॥
सः । व॒र्धि॒ता । वर्ध᳚नः । पू॒यमा᳚नः । सोमः᳚ । मी॒ढ्वान् । अ॒भि । नः॒ । ज्योति᳚षा । आ॒वी॒त् ।
येन᳚ । नः॒ । पूर्वे᳚ । पि॒तरः᳚ । प॒द॒॑ज्ञाः । स्वः॒॑विदः᳚ । अ॒भि । गाः । अद्रि᳚म् । उ॒ष्णन् ॥
वर्धिता देवानां स्वकलाप्रदानेन वर्धयिता वर्धनः स्वयंवर्धमानः पवित्रेण पूयमानः मीढ्वान् कामानांसेक्ता ससोमः नोस्माकं ज्योतिषा स्वतेजसा अभ्यावीत् अभिरक्षतु । येन सोमेन पदज्ञाः पणिभिरपहृतानां गवांपदानि जानन्तः स्वर्विदः सर्वज्ञाः सूर्यंजान- न्तोवा नोस्माकंपूर्वे चिरन्तनाः पितरोंगिरसःगाः पशूनभिलक्ष्य अद्रिमुष्णन् शिलोच्चय- मुष्णन् सोमतेजसा अंधकारावृतं शिलोच्चयंगत्वा पशूनाहरन्नित्यर्थः । उषिरिहमुष्णाति- समानकर्मा । यद्वा मुष्णातेर्लङि वर्णलोपः ॥ ३९ ॥
अक्रा᳚न्त्समु॒द्रः प्र᳚थ॒मे विध᳚र्मञ्ज॒नय᳚न्प्र॒जा भुव᳚नस्य॒ राजा᳚ ।
वृषा᳚ प॒वित्रे॒ अधि॒ सानो॒ अव्ये᳚ बृ॒हत्सोमो᳚ वावृधे सुवा॒न इन्दु᳚ः ॥
अक्रा᳚न् । स॒मु॒द्रः । प्र॒थ॒मे । वि॑ध᳚र्मन् । ज॒नय᳚न् । प्र॒॑जाः । भुव᳚नस्य । राजा᳚ ।
वृषा᳚ । प॒वित्रे᳚ । अधि᳚ । सानौ᳚ । अव्ये᳚ । बृ॒हत् । सोमः᳚ । व॒वृ॒धे॒ । सु॒वा॒नः । इन्दुः᳚ ॥
समुद्रः यस्मादापः समुद्द्रवन्ति ससमुद्रः अपांवर्षकोराजासोमः प्रथमे विस्तृते भुवन- स्योदकस्य विधर्मन् विधारकेन्तरिक्षे प्रजा जनयन् । उत्पादयन् अक्रान् सर्वमतिक्रामति । क्रमतेर्लुङि तिपीडभावे वृद्धौ च कृतायां सिज् लोपे मकारस्य मोनोधातोरितिनकारेरूपम् । वृषा कामानां वर्षिता सुवानोभिषूयमाणः इन्दुर्दीप्तः ससोमः अधि अधिकं सानौ समु- च्छ्रिते अव्ये अविमये पवित्रे बृहत् प्रभूतं ववृधे वर्धते ॥ ४० ॥
म॒हत्तत्सोमो᳚ महि॒षश्च᳚कारा॒पां यद्गर्भो॑वृ᳚णीत दे॒वान् ।
अद᳚धा॒दिन्द्रे॒ पव᳚मान॒ ओजो॑ज᳚नय॒त्सूर्ये॒ ज्योति॒रिन्दु᳚ः ॥
म॒हत् । तत् । सोमः᳚ । म॒हि॒षः । च॒का॒र॒ । अ॒पाम् । यत् । गर्भः᳚ । अवृ᳚णीत । दे॒वान् ।
अद᳚धात् । इन्द्रे᳚ । पव᳚मानः । ओजः᳚ । अज᳚नयत् । सूर्ये᳚ । ज्योतिः᳚ । इन्दुः᳚ ॥
महिषो महान् पूज्योवा सोमो महत् प्रभूतं तत् कर्म चकार अकरोत् । किंतत् अपांग- र्भः उदकानांगर्भभूतः जनयितृत्वाज्जन्यत्वाच्च ससोमः देवानवृणीत समभजतेतियत् तत् कृतवानिति । किंच पवमानः पूयमानः सोमः ओजः सोमपानेन जन्यं बलं इन्द्रे अदधात् व्यदधात् । तथा इन्दुः सोमः सूर्येज्योतिस्तेजः अजनयत् ॥ ४१ ॥
मत्सि᳚ वा॒युमि॒ष्टये॒ राध᳚से च॒ मत्सि᳚ मि॒त्रावरु᳚णा पू॒यमा᳚नः ।
मत्सि॒ शर्धो॒ मारु᳚तं॒ मत्सि᳚ दे॒वान्मत्सि॒ द्यावा᳚पृथि॒वी दे᳚व सोम ॥
मत्सि᳚ । वा॒युम् । इ॒ष्टये᳚ । राध᳚से । च॒ । मत्सि᳚ । मि॒त्रावरु᳚णा । पू॒यमा᳚नः ।
मत्सि᳚ । शर्धः᳚ । मारु᳚तम् । मत्सि᳚ । दे॒वान् । मत्सि᳚ । द्यावा᳚पृथि॒वी इति᳚ । दे॒व॒ । सो॒म॒ ॥
हे सोम त्वं वायुं मत्सि मादय । किमर्थं अस्माकमेषणाय अन्नाय राधसे धनाय च । तथा पूयमानः पवित्रेण त्वं मित्रावरुणा च मत्सि तर्पयसि । किंच मारुतं मरुतां स्वभूतं रार्धोबलं च मत्सि । तथा देवानिन्द्रादीन् मत्सि हर्षयसि । हेदेव स्तोतव्य हेसोम द्यावापृथिवी द्यावापृथिव्यौ च मत्सि मादय एतान् हर्षयुक्तान् कृत्वास्मभ्यंधनं प्रयच्छेत्यर्थः ॥ ४२ ॥
ऋ॒जुः प᳚वस्व वृजि॒नस्य᳚ ह॒न्तापामी᳚वां॒ बाध᳚मानो॒ मृध᳚श्च ।
अ॒भि॒श्री॒णन्पय॒ः पय᳚सा॒भि गोना॒मिन्द्र᳚स्य॒ त्वं तव᳚ व॒यं सखा᳚यः ॥
ऋ॒जुः । प॒व॒स्व॒ । वृ॒जि॒नस्य᳚ । ह॒न्ता । अप᳚ । अमी᳚वाम् । बाध᳚मानः । मृधः᳚ । च॒ ।
अ॒भि॒॑श्री॒णन् । पयः᳚ । पय᳚सा । अ॒भि । गोना᳚म् । इन्द्र᳚स्य । त्वम् । तव᳚ । व॒यम् । सखा᳚यः ॥
हेसोम ऋजुः ऋजुगमनःसन् पवस्व क्षर । किंकुर्वन् वृजिनस्य उपद्रवस्य हन्ता अमी वां रोगरूपं राक्षसं अपबाधमानः तथा अस्मदीयान् मृधोहिंसकान् शत्रूंश्च बाधमानः सन् पवस्व ततः पयआत्मीयंरसं गोनां गवांपयसाक्षीरेण अभिश्रीणन् अभिसंयोजयन् पात्राण्य- भिगच्छसि । अपिच त्वं इन्द्रस्य सखासि हेसोम तव वयं सखायः स्तुत्यस्तोतृत्वयष्टृयष्ट-व्यत्वलक्षणेन सखिभूताः स्मः ॥ ४३ ॥
मध्व॒ः सूदं᳚ पवस्व॒ वस्व॒ उत्सं᳚ वी॒रं च᳚ न॒ आ प᳚वस्वा॒ भगं᳚ च ।
स्वद॒स्वेन्द्रा᳚य॒ पव᳚मान इन्दो र॒यिं च᳚ न॒ आ प᳚वस्वा समु॒द्रात् ॥
मध्वः᳚ । सूद᳚म् । प॒व॒स्व॒ । वस्वः᳚ । उत्स᳚म् । वी॒रम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । भग᳚म् । च॒ ।
स्वद᳚स्व । इन्द्रा᳚य । पव᳚मानः । इ॒न्दो॒ इति᳚ । र॒यिम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । स॒मु॒द्रात् ॥
हे सोम मध्वोमाधुर्यस्य सूदं क्षारयितारं घनीभूतं आपवस्व । वस्वो वसु धनस्य उत्सं उत्सन्दकं रसं पवस्व । किंच नोस्मभ्यं वीरं पुत्रं आपवस्व आप्रापय । तथा भगं भजनीयं धनंच देहि । हेइन्दो पवमानः पूयमानः सन् इन्द्राय स्वदस्व रुचितोभव । ततस्त्वं नोस्मभ्यं समुद्रादन्तरिक्षात् रयिं धनं पुत्रंवा राति ददाति क्षीरमिति रयिर्गैर्वा तांवा पवस्व देहि ॥ ४४ ॥
सोमः᳚ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य᳚क्षाः ।
आ योनिं॒ वन्य᳚मसदत्पुना॒नः समिन्दु॒र्गोभि᳚रसर॒त्सम॒द्भिः ॥
सोमः᳚ । सु॒तः । धार᳚या । अत्यः᳚ । न । हित्वा᳚ । सिन्धुः᳚ । न । नि॒म्नम् । अ॒भि । वा॒जी । अ॒क्षा॒रिति᳚ ।
आ । योनि᳚म् । वन्य᳚म् । अ॒स॒द॒त् । पु॒ना॒नः । सम् । इन्दुः᳚ । गोभिः᳚ । अ॒स॒र॒त् । सम् । अ॒त्॑भिः ॥
सुतोभिषुतः सोमोधारयास्वीयया अत्योनअतनशीलोश्वइव हित्वागत्वा हिनोतेः क्वनि- पिरूपम् । किंच वाजी बलवान् सोमः सिन्धुर्न यथासिन्धुः स्यन्दमाना नदी निम्नं प्रदेश- मभिगच्छति तद्वत् निम्नमधरभाविनं कलशमभ्यक्षाः अभिक्षरति । ततः पुनानः पूयमानः सोमः वन्यं वृक्षभवं योनिं योनिस्थानं कलशं आसदत् आसीदति । सोयमिन्दुः सोमः गीर्भिर्गोविकारैः क्षीरादिभिः श्रयणैः सं असरत् संसरति तथा अद्भिर्वसतीवरोभिश्च संग- च्छते ॥ ४५ ॥
ए॒ष स्य ते᳚ पवत इन्द्र॒ सोम᳚श्च॒मूषु॒ धीर᳚ उश॒ते तव᳚स्वान् ।
स्व᳚र्चक्षा रथि॒रः स॒त्यशु᳚ष्म॒ः कामो॒ न यो दे᳚वय॒तामस᳚र्जि ॥
ए॒षः । स्यः । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । सोमः᳚ । च॒मूषु᳚ । धीरः᳚ । उ॒श॒ते । तव᳚स्वान् ।
स्वः᳚॑चक्षाः । र॒थि॒रः । स॒त्य॑शु᳚ष्मः । कामः᳚ । न । यः । दे॒व॒॑य॒ताम् । अस᳚र्जि ॥
हे इन्द्र उशते कामयमानाय ते तुभ्यं त्वदर्थं धीरः प्राज्ञः तवस्वान् वेगवान् स्यः सएषसोमः चमूषु चमसेषु पवते क्षरति स्वर्चक्षाः सर्वदर्शिनः रथिरोरथवान् सत्यशुश्मः यथार्थबलोयः सोमः देवयतां देवानिच्छतां यजमानानां कामोन कामदइवासर्जि असृज्यत अदीयतइत्यर्थः ॥ ४६ ॥
ए॒ष प्र॒त्नेन॒ वय᳚सा पुना॒नस्ति॒रो वर्पां᳚सि दुहि॒तुर्दधा᳚नः ।
वसा᳚न॒ः शर्म᳚ त्रि॒वरू᳚थम॒प्सु होते᳚व याति॒ सम᳚नेषु॒ रेभ᳚न् ॥
ए॒षः । प्र॒त्नेन᳚ । वय᳚सा । पु॒ना॒नः । ति॒रः । वर्पां᳚सि । दु॒हि॒तुः । दधा᳚नः ।
वसा᳚नः । शर्म᳚ । त्रि॒॑वरू᳚थम् । अ॒प्॑सु । होता᳚॑इव । या॒ति॒ । सम᳚नेषु । रेभ᳚न् ॥
प्रत्नेन पूर्वकालीनेन वयसा अन्नेन पुनानः पूयमानः अन्नात्मिकया धारया क्षरन्नित्य- र्थः तादृशः दुहितुः सर्वस्यदोग्ध्र्याः पृथिव्यां वर्पांसि वर्पइतिरूपनाम वृणोति शरीरमिति रूपाणि तिरोदधानः स्वतेजसा तिरस्कुर्वन् आच्छादयन् तथा त्रिवरूथं त्रिभूमिकोपेतं यद्वा त्रयः शीतातपवर्षाः तेषां निवारकं शर्म यज्ञगृहं वसानः आच्छादयन् अप्सु वसती- वरीषुस्थितः एषसोमः होतेव यथाहोता स्तुतिध्वनिं कुर्वन् यज्ञेषु याति तद्वत् रेभन् शब्दायमानःसन् समनेषु समन्ति कर्माणिधृष्टाः प्रगल्भायंत्यत्रेति समना यज्ञाः तेषु याति गच्छति ॥ ४७ ॥
नू न॒स्त्वं र᳚थि॒रो दे᳚व सोम॒ परि᳚ स्रव च॒म्वो᳚ः पू॒यमा᳚नः ।
अ॒प्सु स्वादि᳚ष्ठो॒ मधु᳚मा{4} ऋ॒तावा᳚ दे॒वो न यः स᳚वि॒ता स॒त्यम᳚न्मा ॥
नु । नः॒ । त्वम् । र॒थि॒रः । दे॒व॒ । सो॒म॒ । परि᳚ । स्र॒व॒ । च॒म्वोः᳚ । पू॒यमा᳚नः ।
अ॒प्॑सु । स्वादि᳚ष्ठः । मधु᳚॑मान् । ऋ॒त॑वा᳚ । दे॒वः । न । यः । स॒वि॒ता । स॒त्य॑म᳚न्मा ॥
हे देव काम्यमान हेसोम रथिरोरथवांस्त्वं नोस्माकं स्वभूतेयज्ञे चम्वोरधिषवणफलक- योः पूयमानः सन् अप्सु वसतीवरीषु नुक्षिप्रं परिस्रव परितः क्षर । स्वादिष्ठः स्वादुतमः अतएव मधुमान् माधुर्ययुक्तः ऋतावा ऋतवान् यज्ञवान् सविता सर्वस्यप्रेरकोयस्त्वं देवोन देवइव सत्यमन्मा सत्यस्तुतिकोभवसि सत्वं परिस्रवेति ॥ ४८ ॥
अ॒भि वा॒युं वी॒त्य᳚र्षा गृणा॒नो॒३॒᳚॑भि मि॒त्रावरु᳚णा पू॒यमा᳚नः ।
अ॒भी नरं᳚ धी॒जव᳚नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष᳚णं॒ वज्र᳚बाहुम् ॥
अ॒भि । वा॒युम् । वी॒ती । अ॒र्ष॒ । गृ॒णा॒नः । अ॒भि । मि॒त्रावरु᳚णा । पू॒यमा᳚नः ।
अ॒भि । नर᳚म् । धी॒॑जव᳚नम् । र॒थे॒॑स्थाम् । अ॒भि । इन्द्र᳚म् । वृष᳚णम् । वज्र᳚॑बाहुम् ॥
हेसोम गृणानः स्तूयमानः त्वं वीती सुपांसुलुगिति चतुर्थ्याःपूर्वसवर्णदीर्घः । वीत्यै पानाय वायुमभ्यर्ष अभिगच्छ । तथा पवित्रेण पूयमानस्त्वं मित्रावरुणा मित्रावरुणौच पानायाभिगच्छ । किंच नरं सर्वस्यनेतारं धीजवनं बुध्यासमंवेगं कुर्वाणं रथेष्ठां रथेस्थां रथेतिष्ठन्तं अनेनाश्विनावभिधीयेते । एकवचनं प्रत्येकविवक्षया समुदायविवक्षयावा । एता दृशावश्विनौचाभिगच्छ । तथा वूषणं कामानां वर्षकं वज्रबाहुं वज्रयुक्तबाहुं इन्द्रंच त्वं- पानायाभिगच्छ ॥ ४९ ॥
अ॒भि वस्त्रा᳚ सुवस॒नान्य᳚र्षा॒भि धे॒नूः सु॒दुघा᳚ः पू॒यमा᳚नः ।
अ॒भि च॒न्द्रा भर्त᳚वे नो॒ हिर᳚ण्या॒भ्यश्वा᳚न्र॒थिनो᳚ देव सोम ॥
अ॒भि । वस्त्रा᳚ । सु॒॑व॒स॒नानि᳚ । अ॒र्ष॒ । अ॒भि । धे॒नूः । सु॒॑दुघाः᳚ । पू॒यमा᳚नः ।
अ॒भि । च॒न्द्रा । भर्त᳚वे । नः॒ । हिर᳚ण्या । अ॒भि । अश्वा᳚न् । र॒थिनः᳚ । दे॒व॒ । सो॒म॒ ॥
हे सोम त्वमस्माकं सुवसनानि सुपरिधानानि वस्त्रा वस्त्राणि अभ्यर्ष अभिगमय । यद्वा सुवसनानि शोभनवस्त्रसहितानि वस्त्रा आच्छादकानि धनान्यभिगमय । किंच पूय- मानः पवित्रेण त्वं सुदुघाः सुष्ठुपयसोदोग्ध्रीः धेनूः नवप्रसूतिकागाः अभिप्रापय । अपि च चन्द्रा चन्द्राण्याह्लादकानि हिरण्या हिरण्यानि भर्तवे भरणाय पोषणाय नोस्माकमभि- गमय । तथा हेदेव स्तोतव्य हेसोम रथिनोरथवतोश्वान् अस्माकमभिप्रापय ॥ ५० ॥
अ॒भी नो᳚ अर्ष दि॒व्या वसू᳚न्य॒भि विश्वा॒ पार्थि᳚वा पू॒यमा᳚नः ।
अ॒भि येन॒ द्रवि᳚णम॒श्नवा᳚मा॒भ्या᳚र्षे॒यं ज᳚मदग्नि॒वन्न᳚ः ॥
अ॒भि । नः॒ । अ॒र्ष॒ । दि॒व्या । वसू᳚नि । अ॒भि । विश्वा᳚ । पार्थि᳚वा । पू॒यमा᳚नः ।
अ॒भि । येन᳚ । द्रवि᳚णम् । अ॒श्नवा᳚म । अ॒भि । आ॒र्षे॒यम् । ज॒म॒द॒ग्नि॒॑वत् । नः॒ ॥
हे सोम पवित्रेण पूयमानस्त्वं दिव्या दिव्यानि दिविभवानि वसूनि धनानि नोस्माक मभ्यर्ष अभिगमय । तथा पार्थिवा पार्थिवानि पृथिव्यांभवानि विश्वा सर्वाणि धनान्यभिगमय । तथा सेन त्वदीयेन सामर्थ्येन द्रविणं धनं वयमभ्यश्नवाम अभिव्याप्नुयाम तत्सा-मर्थ्यमभिगमय । किंच आर्षेयं आर्षाणामृषिपुत्राणां योग्यं धनं जमदग्निवत् जमदग्नेर्यथा त्वं- प्रापयः एवं नोस्माकमपि अभ्यर्ष । यद्वा आर्षेयं आर्षाणां योग्यं मंत्रं जमदग्नेःस्वभूतंमंत्रं यथा स्वादुतममकार्षीः एवमस्माकं तादृशंमंत्रं स्वादुतमंकुर्विति कुत्सोनामऋषिःप्रार्थयते । ॥ ५१ ॥
अ॒या प॒वा प᳚वस्वै॒ना वसू᳚नि मा{4}श्च॒त्व इ᳚न्दो॒ सर᳚सि॒ प्र ध᳚न्व ।
ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु᳚रु॒मेध᳚श्चि॒त्तक᳚वे॒ नरं᳚ दात् ॥
अ॒या । प॒वा । प॒व॒स्व॒ । ए॒ना । वसू᳚नि । मा{4}॒श्च॒त्वे । इ॒न्दो॒ इति᳚ । सर᳚सि । प्र । ध॒न्व॒ ।
ब्र॒ध्नः । चि॒त् । अत्र᳚ । वातः᳚ । न । जू॒तः । पु॒रु॒॑मेधः᳚ । चि॒त् । तक᳚वे । नर᳚म् । दा॒त् ॥
हे सोम अया अनया पवा पवमानया धारया सह एना एनानि वसूनि धनानि पवस्व क्षर । पवा पूङ्पवने अन्येभ्योदृश्यन्तइतिविच् प्रत्ययः आर्धधातुकलक्षणोगुणः सावे- काचइतितृतीयायाउदात्तत्वम् । तथा हेइन्दो तथा त्वं मांश्चत्वे मन्यमानानां चातके सरसि उदके वसतीवर्याख्ये प्रधन्व प्रगच्छ । ततः अत्र अस्मिन् सोमे पूयमानेसति ब्रध्नः चित् सर्वेषां प्रज्ञापकः मूलभूतोवा आदित्योपि वातोन वातइव जूतः वेगितःसन् किंच पुरुमे- धः चित् बहुविधयज्ञइन्द्रश्चित् इन्द्रोपि तकवे तकतिर्गतिकर्मसुपठितः अस्मादौणादिकऊन् प्रत्ययः सोममभिगच्छते स्तुतिभिः मह्यं नरं कर्मनेतारं पुत्रं दात् प्रयच्छतु हेसोम त्वया तर्पितौ सन्ताविन्द्रादित्यौ मह्यं पुत्रं प्रयच्छता मित्यर्थः ॥ ५२ ॥
उ॒त न᳚ ए॒ना प᳚व॒या प᳚व॒स्वाधि᳚ श्रु॒ते श्र॒वाय्य᳚स्य ती॒र्थे ।
ष॒ष्टिं स॒हस्रा᳚ नैगु॒तो वसू᳚नि वृ॒क्षं न प॒क्वं धू᳚नव॒द्रणा᳚य ॥
उ॒त । नः॒ । ए॒ना । प॒व॒या । प॒व॒स्व॒ । अधि᳚ । श्रु॒ते । श्र॒वाय्य᳚स्य । ती॒र्थे ।
ष॒ष्टिम् । स॒हस्रा᳚ । नै॒गु॒तः । वसू᳚नि । वृ॒क्षम् । न । प॒क्वम् । धू॒न॒व॒त् । रणा᳚य ॥
हेसोम उतापिच श्रवाय्यस्य सर्वैः श्रवणीयस्य सोमस्य तव श्रुते प्रसिद्धौ यद्वा षष्ठ्य र्थेचतुर्थी श्रुतः शब्दस्य तीर्थे स्थाने नोस्माकं स्वभूतेयज्ञे एना अनया पवया पूयमानया धारया अधि अधिकं पवस्व क्षर । नैगुतः नीचीनं गवन्ते शब्दायन्तइति निगुतः शत्रवः । तेषां हन्तृत्वेन संबन्धी सोयंसोमः षष्टिं सहस्रा षष्टिसंख्याकानि सहस्राणि वसूनि धनानि रणाय शत्रूणां जयार्थं धूनवत् अस्माकमकंपयत् प्रायच्छदितियावत् । कथमिव वृक्षंनपक्वं पक्वफलं वृक्षं यथा कंपयति फलार्थी तद्वत् ॥ ५३ ॥
मही॒मे अ᳚स्य॒ वृष॒नाम᳚ शू॒षे मा{4}श्च᳚त्वे वा॒ पृश᳚ने वा॒ वध᳚त्रे ।
अस्वा᳚पयन्नि॒गुतः᳚ स्ने॒हय॒च्चापा॒मित्रा{4}॒ अपा॒चितो᳚ अचे॒तः ॥
महि᳚ । इ॒मे इति᳚ । अ॒स्य॒ । वृष॒नाम᳚ । शू॒षे इति᳚ । मा{4}॒श्च᳚त्वे । वा॒ । पृश᳚ने । वा॒ । वध᳚त्रे॒ इति᳚ ।
अस्वा᳚पयत् । नि॒॑गुतः᳚ । स्ने॒हय᳚त् । च॒ । अप᳚ । अ॒मित्रा᳚न् । अप᳚ । अ॒चितः᳚ । अ॒च॒ । इ॒तः ॥
महि महती प्रभूते वृषनाम सुपांसुलुगितिसुपोलुक् वृषनामनी वर्षणनमने शराणां वर्षणं शत्रूणां नमनं इमे एते द्वेकर्मणी अस्यसोमस्य शूषे सुखकरेभवतः । येच कर्मणी मांश्चत्वे अश्वनामैतत् । मक्षू चरतीति अश्वैःक्रियमाणेयुद्धे तत्साध्यत्वात् यु वा अपिवा पृशने स्पर्शनसाध्ये बाहुयुद्धे वधत्रे शत्रूणांहिंसनशीले भवतः सोयं निगुतः नीचैः शब्दायमानान् शत्रून् अस्वापयत् ताभ्यामसूषपत् । अवधीदित्यर्थः । किंच स्रेहयत् प्राद्रवयत् संग्रामाच्छत्रून् । अथप्रत्यक्षकृतः हेसोम सत्वं अमित्रान् शात्रून् अपाच अपा- गमय । तथा अचितः अग्निचयनमकुर्वतो नास्तिकांश्च इतोस्मत्सकाशात् अपाच अपगमय अचतिर्गतिकर्मा ॥ ५४ ॥
सं त्री प॒वित्रा॒ वित᳚तान्ये॒ष्यन्वेकं᳚ धावसि पू॒यमा᳚नः ।
असि॒ भगो॒ असि᳚ दा॒त्रस्य᳚ दा॒तासि᳚ म॒घवा᳚ म॒घव᳚द्भ्य इन्दो ॥
सम् । त्री । प॒वित्रा᳚ । वि॑त᳚तानि । ए॒षि॒ । अनु᳚ । एक᳚म् । धा॒व॒सि॒ । पू॒यमा᳚नः ।
असि᳚ । भगः᳚ । असि᳚ । दा॒त्रस्य᳚ । दा॒ता । असि᳚ । म॒घ॑वा᳚ । म॒घव᳚त्॑भ्यः । इ॒न्दो॒ इति᳚ ॥
हेसोम विततानि विस्तृतानि त्री त्रीणि पवित्रा अग्निवायुसूर्यात्मकानि पवित्राणि समेषि सम्यक् प्राप्नोषि । किंच पूयमानस्त्वं एकमविवालकृतंपवित्रं अनुधावसि अनुगच्छ- सि । किंचत्वं भगोभजनीयोसि तथा दात्रस्यदेयस्यधनस्य दातासि । कथमस्यधनदत्वमिति चेत्तदुच्यते । हेइन्दो सोम मघवद्भ्योन्येभ्योपित्वं मघवासि अतिशयेन धनवान् भवसि ॥ ५५ ॥
ए॒ष वि᳚श्व॒वित्प᳚वते मनी॒षी सोमो॒ विश्व᳚स्य॒ भुव᳚नस्य॒ राजा᳚ ।
द्र॒प्सा{4} ई॒रय᳚न्वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं᳚ स॒मयाति᳚ याति ॥
ए॒षः । वि॒श्व॒॑वित् । प॒व॒ते॒ । म॒नी॒षी । सोमः᳚ । विश्व᳚स्य । भुव᳚नस्य । राजा᳚ ।
द्र॒प्सान् । ई॒रय᳚न् । वि॒दथे᳚षु । इन्दुः᳚ । वि । वार᳚म् । अव्य᳚म् । स॒मया᳚ । अति᳚ । या॒ति॒ ॥
विश्ववित् सर्वस्यवेत्ता अतएव मनीषी मेधावी विश्वस्य भुवनस्य सर्वस्य लोकस्य राजा स्वामी एषसोमः पवते क्षरति । एतदेव विवृणोति । विदथेषु विन्दन्ति जानंत्य- त्रदेवानिति । यद्वा विन्दन्ति लभन्ते विदथायज्ञास्तेषु द्रप्सान् रसकणान् ईरयन् प्रेरयन् । इन्दुः सोमः अव्यं अविभवं वारं वालं पवित्रं समया उभयतः व्यतियाति व्यतीत्यगच्छ- ति ॥ ५६ ॥
इन्दुं᳚ रिहन्ति महि॒षा अद᳚ब्धाः प॒दे रे᳚भन्ति क॒वयो॒ न गृध्रा᳚ः ।
हि॒न्वन्ति॒ धीरा᳚ द॒शभि॒ः क्षिपा᳚भि॒ः सम᳚ञ्जते रू॒पम॒पां रसे᳚न ॥
इन्दु᳚म् । रि॒ह॒न्ति॒ । म॒हि॒षाः । अद᳚ब्धाः । प॒दे । रे॒भ॒न्ति॒ । क॒वयः᳚ । न । गृध्राः᳚ ।
हि॒न्वन्ति᳚ । धीराः᳚ । द॒श॑भिः᳚ । क्षिपा᳚भिः । सम् । अ॒ञ्ज॒ते॒ । रू॒पम् । अ॒पाम् । रसे᳚न ॥
महिषा महान्तः पूज्यावा अतएवादव्धाः कैश्चिदप्याहिंसिता देवा इन्दुं सोमं रिहन्ति लिहंत्यास्वादयन्ति । किंच देवाः सोममुशन्तः सन्तः पदे तस्यास्य सोमस्य धारास्थाने रेभन्ति शब्दायन्ते । तत्र दृष्टान्तः—कवयोनगृध्राः धनमभिकांक्षमाणाः कवयः स्तोतारो- यथा स्तुवन्तः शब्दायन्ते तद्वत् धीराः कर्मणिकुशला ऋत्विजः दशभिः एतत्संख्याकाभिः क्षिपाभिरंगुलीभिः तमिमंसोमं हिन्वंति अभिषवार्थं प्रेरयन्ति । अपिच रूपं अंशुं अपां वसतीवर्याख्यानां रसेन समंजते सम्यक् सेवयन्ति ॥ ५७ ॥
त्वया᳚ व॒यं पव᳚मानेन सोम॒ भरे᳚ कृ॒तं वि चि᳚नुयाम॒ शश्व᳚त् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
त्वया᳚ । व॒यम् । पव᳚मानेन । सो॒म॒ । भरे᳚ । कृ॒तम् । वि । चि॒नु॒या॒म॒ । शश्व᳚त् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
हेसोम पवमानेन पवित्रेण पूयमानेन त्वया सहायेन भरे संग्रामनाम संग्रामे शश्वद्बहु कृतं कर्तव्यं वयं विचिनुयाम विशॆषेणकुर्याम । यस्मात्तवसहायेन कर्माणिकुर्मः तत्तस्मात् नोस्मान् मित्रोवरुणः अदितिः एतन्नामका सिंधुः एतदभिधानाच पृथिवी उतापिच द्यौः एतेमित्रादयोनोस्मान् मामहंतां पूजयन्तु धनादिदानेन ॥ ५८ ॥
अभिनइति द्वादशर्चं द्वितीयंसूक्तं वृषागिरोराज्ञःपुत्रअंबरीषः भरद्वाजपुत्रऋजिश्वाच उभौसहितावस्यऋषी इदमुत्तराणिचत्रीण्यानुष्टुभानि अत्रत्वेकादशीबृहती पवमानःसोमो- देवता । तथाचानुक्रम्यते—अभीनोद्वादशांबरीषऋजिश्वाचानुष्टुभंह बृहद्त्युपांत्येति । गतो- विनियोगः ।