भ॒द्रा वस्त्रा᳚ सम॒न्या॒३॒᳚ वसा᳚नो म॒हान्क॒विर्नि॒वच᳚नानि॒ शंस᳚न् ।
आ व᳚च्यस्व च॒म्वो᳚ः पू॒यमा᳚नो विचक्ष॒णो जागृ᳚विर्दे॒ववी᳚तौ ॥
आ व᳚च्यस्व च॒म्वो᳚ः पू॒यमा᳚नो विचक्ष॒णो जागृ᳚विर्दे॒ववी᳚तौ ॥
पदपाठः (Word-by-word)
भ॒द्रा । वस्त्रा᳚ । स॒म॒न्या᳚ । वसा᳚नः । म॒हान् । क॒विः । नि॒॑वच᳚नानि । शंस᳚न् ।
आ । व॒च्य॒स्व॒ । च॒म्वोः᳚ । पू॒यमा᳚नः । वि॒॑च॒क्ष॒णः । जागृ᳚विः । दे॒व॑वी᳚तौ ॥
आ । व॒च्य॒स्व॒ । च॒म्वोः᳚ । पू॒यमा᳚नः । वि॒॑च॒क्ष॒णः । जागृ᳚विः । दे॒व॑वी᳚तौ ॥
सायणभाष्यम् (Sayana Commentary)
भद्रा भद्राणि कल्याणानि समन्या समनमिति संग्रामनामतत्र साधुरिति यत् संग्रा- मयोग्यानि वस्त्रा वस्त्राणि आच्छादकानि तेजांसि वसानः आच्छादयन् महान् पूज्यः कविः क्रान्तदर्शी अतएव निवचनानि नितरांवक्तव्यानि ऋत्विक् कृतानि स्तोत्राणि शंसन् विचक्षणः विशेषेण सर्वस्यद्रष्टा जागृविर्जागरणशीलः सोमः त्वं देववीतौ देवानांवीतिर्भ- क्षणं यस्मिन्त्सदेववीतिर्यज्ञः तस्मिन् चम्वोरधिषवणफलकयोः आवच्यस्व पात्राण्याविश । वचिर्गत्यर्थः व्यत्ययेन श्यन् पूयमानः सन् ॥ २ ॥