मध्व॒ः सूदं᳚ पवस्व॒ वस्व॒ उत्सं᳚ वी॒रं च᳚ न॒ आ प᳚वस्वा॒ भगं᳚ च ।
स्वद॒स्वेन्द्रा᳚य॒ पव᳚मान इन्दो र॒यिं च᳚ न॒ आ प᳚वस्वा समु॒द्रात् ॥
स्वद॒स्वेन्द्रा᳚य॒ पव᳚मान इन्दो र॒यिं च᳚ न॒ आ प᳚वस्वा समु॒द्रात् ॥
पदपाठः (Word-by-word)
मध्वः᳚ । सूद᳚म् । प॒व॒स्व॒ । वस्वः᳚ । उत्स᳚म् । वी॒रम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । भग᳚म् । च॒ ।
स्वद᳚स्व । इन्द्रा᳚य । पव᳚मानः । इ॒न्दो॒ इति᳚ । र॒यिम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । स॒मु॒द्रात् ॥
स्वद᳚स्व । इन्द्रा᳚य । पव᳚मानः । इ॒न्दो॒ इति᳚ । र॒यिम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । स॒मु॒द्रात् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम मध्वोमाधुर्यस्य सूदं क्षारयितारं घनीभूतं आपवस्व । वस्वो वसु धनस्य उत्सं उत्सन्दकं रसं पवस्व । किंच नोस्मभ्यं वीरं पुत्रं आपवस्व आप्रापय । तथा भगं भजनीयं धनंच देहि । हेइन्दो पवमानः पूयमानः सन् इन्द्राय स्वदस्व रुचितोभव । ततस्त्वं नोस्मभ्यं समुद्रादन्तरिक्षात् रयिं धनं पुत्रंवा राति ददाति क्षीरमिति रयिर्गैर्वा तांवा पवस्व देहि ॥ ४४ ॥