अ॒या प॒वा प᳚वस्वै॒ना वसू᳚नि मा{4}श्च॒त्व इ᳚न्दो॒ सर᳚सि॒ प्र ध᳚न्व ।
ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु᳚रु॒मेध᳚श्चि॒त्तक᳚वे॒ नरं᳚ दात् ॥
ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु᳚रु॒मेध᳚श्चि॒त्तक᳚वे॒ नरं᳚ दात् ॥
पदपाठः (Word-by-word)
अ॒या । प॒वा । प॒व॒स्व॒ । ए॒ना । वसू᳚नि । मा{4}॒श्च॒त्वे । इ॒न्दो॒ इति᳚ । सर᳚सि । प्र । ध॒न्व॒ ।
ब्र॒ध्नः । चि॒त् । अत्र᳚ । वातः᳚ । न । जू॒तः । पु॒रु॒॑मेधः᳚ । चि॒त् । तक᳚वे । नर᳚म् । दा॒त् ॥
ब्र॒ध्नः । चि॒त् । अत्र᳚ । वातः᳚ । न । जू॒तः । पु॒रु॒॑मेधः᳚ । चि॒त् । तक᳚वे । नर᳚म् । दा॒त् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम अया अनया पवा पवमानया धारया सह एना एनानि वसूनि धनानि पवस्व क्षर । पवा पूङ्पवने अन्येभ्योदृश्यन्तइतिविच् प्रत्ययः आर्धधातुकलक्षणोगुणः सावे- काचइतितृतीयायाउदात्तत्वम् । तथा हेइन्दो तथा त्वं मांश्चत्वे मन्यमानानां चातके सरसि उदके वसतीवर्याख्ये प्रधन्व प्रगच्छ । ततः अत्र अस्मिन् सोमे पूयमानेसति ब्रध्नः चित् सर्वेषां प्रज्ञापकः मूलभूतोवा आदित्योपि वातोन वातइव जूतः वेगितःसन् किंच पुरुमे- धः चित् बहुविधयज्ञइन्द्रश्चित् इन्द्रोपि तकवे तकतिर्गतिकर्मसुपठितः अस्मादौणादिकऊन् प्रत्ययः सोममभिगच्छते स्तुतिभिः मह्यं नरं कर्मनेतारं पुत्रं दात् प्रयच्छतु हेसोम त्वया तर्पितौ सन्ताविन्द्रादित्यौ मह्यं पुत्रं प्रयच्छता मित्यर्थः ॥ ५२ ॥