दि॒व्यः सु᳚प॒र्णो॑व᳚ चक्षि सोम॒ पिन्व॒न्धारा॒ः कर्म᳚णा दे॒ववी᳚तौ ।
एन्दो᳚ विश क॒लशं᳚ सोम॒धानं॒ क्रन्द᳚न्निहि॒ सूर्य॒स्योप᳚ र॒श्मिम् ॥
एन्दो᳚ विश क॒लशं᳚ सोम॒धानं॒ क्रन्द᳚न्निहि॒ सूर्य॒स्योप᳚ र॒श्मिम् ॥
पदपाठः (Word-by-word)
दि॒व्यः । सु॒॑प॒र्णः । अव᳚ । च॒क्षि॒ । सो॒म॒ । पिन्व᳚न् । धाराः᳚ । कर्म᳚णा । दे॒व॑वी᳚तौ ।
आ । इ॒न्दो॒ इति᳚ । वि॒श॒ । क॒लश᳚म् । सो॒म॒॑धान᳚म् । क्रन्द᳚न् । इ॒हि॒ । सूर्य᳚स्य । उप᳚ । र॒श्मिम् ॥
आ । इ॒न्दो॒ इति᳚ । वि॒श॒ । क॒लश᳚म् । सो॒म॒॑धान᳚म् । क्रन्द᳚न् । इ॒हि॒ । सूर्य᳚स्य । उप᳚ । र॒श्मिम् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम दिव्योदिविभवः सुपर्णः सुपतनस्त्वं अवचक्षि अवस्तात् पश्य च । चष्टेर्लटि- सिपिव्यत्ययेनपरस्मैपदम् । किंकुर्वन् देववीतौ देवानां हविर्भक्षणस्थानेयज्ञे कर्मणा धाराः पिन्वन् क्षरन् । किंच हे इन्दो सोमधानं कलशं आविश क्रन्दन् शब्दायमानस्त्वं सूर्यस्य प्रेरकस्यादित्यस्य रश्मिंकान्तिमुपोहि उपगच्छ ॥ ३३ ॥