अ॒स्य प्रे॒षा हे॒मना᳚ पू॒यमा᳚नो दे॒वो दे॒वेभि॒ः सम᳚पृक्त॒ रस᳚म् ।
सु॒तः प॒वित्रं॒ पर्ये᳚ति॒ रेभ᳚न्मि॒तेव॒ सद्म᳚ पशु॒मान्ति॒ होता᳚ ॥
सु॒तः प॒वित्रं॒ पर्ये᳚ति॒ रेभ᳚न्मि॒तेव॒ सद्म᳚ पशु॒मान्ति॒ होता᳚ ॥
पदपाठः (Word-by-word)
अ॒स्य । प्रे॒षा । हे॒मना᳚ । पू॒यमा᳚नः । दे॒वः । दे॒वेभिः᳚ । सम् । अ॒पृ॒क्त॒ । रस᳚म् ।
सु॒तः । प॒वित्र᳚म् । परि᳚ । ए॒ति॒ । रेभ᳚न् । मि॒ता॑इ᳚व । सद्म᳚ । प॒शु॒॑मन्ति᳚ । होता᳚ ॥
सु॒तः । प॒वित्र᳚म् । परि᳚ । ए॒ति॒ । रेभ᳚न् । मि॒ता॑इ᳚व । सद्म᳚ । प॒शु॒॑मन्ति᳚ । होता᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अस्य सोमस्य प्रेषा प्रेषतिर्गत्यर्थः क्विपिरूपं सावेकाचइतिविभक्तेरुदात्तत्वम् । प्रेषा प्रेरकेण हेमना हिरण्येन पूयमानः हिरण्यपाणिरभिषुणोतीति हिरण्यसंबन्धः । तादृशः देवोदीप्यमानांशुः रसमात्मीयं देवेभिःदेवैः सह समपृक्तः संपर्चयति संयोजयति । पृची- संपर्के ततः सुतोभिषुतः सोमः रेभन् शब्दायमानःसन् पवित्रं ऊर्णास्तुकेननिर्मितं पर्येति परिगच्छति । कथमिव होता देवानामाह्वाता ऋत्विक् मितेव निर्मितान् पशुमन्ति बद्ध- पशून् सद्म सदनानि यज्ञगृहान् यथा पर्येति तद्वत् ॥ १ ॥