श्रवणम्

9.97.25
अर्वा{4}᳚ इव॒ श्रव᳚से सा॒तिमच्छेन्द्र᳚स्य वा॒योर॒भि वी॒तिम᳚र्ष ।
स नः᳚ स॒हस्रा᳚ बृह॒तीरिषो᳚ दा॒ भवा᳚ सोम द्रविणो॒वित्पु᳚ना॒नः ॥
▶ पदपाठः (Word-by-word)
अर्वा᳚न्॑इव । श्रव᳚से । सा॒तिम् । अच्छ᳚ । इन्द्र᳚स्य । वा॒योः । अ॒भि । वी॒तिम् । अ॒र्ष॒ ।
सः । नः॒ । स॒हस्रा᳚ । बृ॒ह॒तीः । इषः᳚ । दाः॒ । भव᳚ । सो॒म॒ । द्र॒वि॒णः॒॑वित् । पु॒ना॒नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोम अन्नार्थं युद्धे अर्वानिव अश्वोयथा गच्छति तद्वत् त्वं श्रवसे अस्माकमन्नार्थं तथा सातिमच्छ धनलाभंप्रति इन्द्रस्य वायोश्ववीतिं पानमभ्यर्ष अभिगच्छ । ऎन्द्रवाय- वग्रहे हि इन्द्रवायू सह सोमंपिबतइति सहोपादानम् । सत्वं सहस्रा सहस्राणि बहुविधा- नि बृहतीः बृंहितानि प्रवृद्धानि इषोन्नानि नोस्मभ्यं दाः प्रयच्छ । हे सोम पुनानः पूय- मानस्त्वं नोस्मभ्यं द्रविणोवित् धनस्य लंभयिता भव । द्रविणशब्दात्सर्वप्रातिपदिकेभ्यो- लालसायांसुग्वक्तव्यइति सुगागमः ॥ २५ ॥