श्रवणम्

9.97.58
त्वया᳚ व॒यं पव᳚मानेन सोम॒ भरे᳚ कृ॒तं वि चि᳚नुयाम॒ शश्व᳚त् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । व॒यम् । पव᳚मानेन । सो॒म॒ । भरे᳚ । कृ॒तम् । वि । चि॒नु॒या॒म॒ । शश्व᳚त् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोम पवमानेन पवित्रेण पूयमानेन त्वया सहायेन भरे संग्रामनाम संग्रामे शश्वद्बहु कृतं कर्तव्यं वयं विचिनुयाम विशॆषेणकुर्याम । यस्मात्तवसहायेन कर्माणिकुर्मः तत्तस्मात् नोस्मान् मित्रोवरुणः अदितिः एतन्नामका सिंधुः एतदभिधानाच पृथिवी उतापिच द्यौः एतेमित्रादयोनोस्मान् मामहंतां पूजयन्तु धनादिदानेन ॥ ५८ ॥

अभिनइति द्वादशर्चं द्वितीयंसूक्तं वृषागिरोराज्ञःपुत्रअंबरीषः भरद्वाजपुत्रऋजिश्वाच उभौसहितावस्यऋषी इदमुत्तराणिचत्रीण्यानुष्टुभानि अत्रत्वेकादशीबृहती पवमानःसोमो- देवता । तथाचानुक्रम्यते—अभीनोद्वादशांबरीषऋजिश्वाचानुष्टुभंह बृहद्त्युपांत्येति । गतो- विनियोगः ।