दे॒वा॒व्यो᳚ नः परिषि॒च्यमा᳚ना॒ः क्षयं᳚ सु॒वीरं᳚ धन्वन्तु॒ सोमा᳚ः ।
आ॒य॒ज्यवः᳚ सुम॒तिं वि॒श्ववा᳚रा॒ होता᳚रो॒ न दि᳚वि॒यजो᳚ म॒न्द्रत᳚माः ॥
आ॒य॒ज्यवः᳚ सुम॒तिं वि॒श्ववा᳚रा॒ होता᳚रो॒ न दि᳚वि॒यजो᳚ म॒न्द्रत᳚माः ॥
पदपाठः (Word-by-word)
दे॒व॒॑अ॒व्यः᳚᳚ । नः॒ । प॒रि॒॑सि॒च्यमा᳚नाः । क्षय᳚म् । सु॒॑वीर᳚म् । ध॒न्व॒न्तु॒ । सोमाः᳚ ।
आ॒॑य॒ज्यवः᳚ । सु॒॑म॒तिम् । वि॒श्व॑वा᳚राः । होता᳚रः । न । दि॒वि॒॑यजः᳚ । म॒न्द्र॑त᳚माः ॥
आ॒॑य॒ज्यवः᳚ । सु॒॑म॒तिम् । वि॒श्व॑वा᳚राः । होता᳚रः । न । दि॒वि॒॑यजः᳚ । म॒न्द्र॑त᳚माः ॥
सायणभाष्यम् (Sayana Commentary)
देवाव्यः अवतेस्तर्पणार्थस्य अवितृस्तॄतन्त्रिभ्यईरिति ईप्रत्ययः । उदात्तस्वरितयो र्यण- इति जसःस्वरितत्वम् । देवानां तर्पयितारः परिषिच्यमानाः परितः पात्रेषु सिच्यमानाः सोमाः नोस्माकं सुवीरंशोभनपुत्रं क्षयं गृहं धन्वन्तु प्रेरयन्तु । कीदृशाः सुमतिं शोभन- मतिं यजमानं आयज्यवः यष्टुमिच्छवः विश्ववाराः विश्वैर्वरणीयाः होतारोन होतारोयथा देवानिन्द्रादीन् स्तुवन्ति एवं दिवियजः दिवि द्युलोकस्थितानिन्द्रादीन् देवान् यजन्तः । दिव् शब्दे तत्पुरुषेकृतिबहुलमिति सप्तम्याअलुक् । मन्द्रतमाः अत्यन्तंमदकराः ॥ २६ ॥