स पु᳚ना॒न उप॒ सूरे॒ न धातोभे अ᳚प्रा॒ रोद᳚सी॒ वि ष आ᳚वः ।
प्रि॒या चि॒द्यस्य᳚ प्रिय॒सास᳚ ऊ॒ती स तू धनं᳚ का॒रिणे॒ न प्र यं᳚सत् ॥
प्रि॒या चि॒द्यस्य᳚ प्रिय॒सास᳚ ऊ॒ती स तू धनं᳚ का॒रिणे॒ न प्र यं᳚सत् ॥
पदपाठः (Word-by-word)
सः । पु॒ना॒नः । उप᳚ । सूरे᳚ । न । धाता᳚ । आ । उ॒भे इति᳚ । अ॒प्राः॒ । रोद᳚सी॒ इति᳚ । वि । सः । आ॒व॒रित्या᳚वः ।
प्रि॒या । चि॒त् । यस्य᳚ । प्रि॒य॒सासः᳚ । ऊ॒ती । सः । तु । धन᳚म् । का॒रिणे᳚ । न । प्र । यं॒स॒त् ॥
प्रि॒या । चि॒त् । यस्य᳚ । प्रि॒य॒सासः᳚ । ऊ॒ती । सः । तु । धन᳚म् । का॒रिणे᳚ । न । प्र । यं॒स॒त् ॥
सायणभाष्यम् (Sayana Commentary)
पुनानः पूयमानः ससोमः इन्द्रे उपगच्छति । तत्रदृष्टन्तः—सूरेन यथा सूर्ये धाता संवत्सरउपगच्छति । ससंवत्सरोविधातारम् । संवत्सरेणैवास्मैप्रजाःप्रजनयतीत्याम्नानात् । किंचोभेरोदसी द्यावापृथिव्यौ आप्राः स्वमहिम्ना आपूरयति । तथा ससोमः व्यावः स्व- तेजसा तमांसि विवृणोति । वृणोतेर्मंत्रेघसेतिच्लेर्लुक् छन्दस्यपिदृश्यतेइत्यडागमः पूर्वपदा- दितिसइत्यस्यसांहितिकंषत्वम् । प्रिया षष्ठ्याआकारः प्रियस्य यस्यसोमस्य यद्वा प्रियाणि प्रयच्छतः यस्यसोमस्य प्रियसासः अत्यन्तं प्रियतमाधाराः ऊती रक्षणाय भवन्ति स तु क्षिप्रं अस्मभ्यं धनं प्रयंसत् प्रयच्छतु । यच्छतेर्लेटिसिप्यडागमः । तत्रदृष्टान्तः—कारिणेन यथा कारिणे च कृतकाय भृतिं प्रयच्छन्ति तद्वत् ॥ ३८ ॥