स व᳚र्धि॒ता वर्ध᳚नः पू॒यमा᳚न॒ः सोमो᳚ मी॒ढ्वा{4} अ॒भि नो॒ ज्योति᳚षावीत् ।
येना᳚ न॒ः पूर्वे᳚ पि॒तरः᳚ पद॒ज्ञाः स्व॒र्विदो᳚ अ॒भि गा अद्रि᳚मु॒ष्णन् ॥
येना᳚ न॒ः पूर्वे᳚ पि॒तरः᳚ पद॒ज्ञाः स्व॒र्विदो᳚ अ॒भि गा अद्रि᳚मु॒ष्णन् ॥
पदपाठः (Word-by-word)
सः । व॒र्धि॒ता । वर्ध᳚नः । पू॒यमा᳚नः । सोमः᳚ । मी॒ढ्वान् । अ॒भि । नः॒ । ज्योति᳚षा । आ॒वी॒त् ।
येन᳚ । नः॒ । पूर्वे᳚ । पि॒तरः᳚ । प॒द॒॑ज्ञाः । स्वः॒॑विदः᳚ । अ॒भि । गाः । अद्रि᳚म् । उ॒ष्णन् ॥
येन᳚ । नः॒ । पूर्वे᳚ । पि॒तरः᳚ । प॒द॒॑ज्ञाः । स्वः॒॑विदः᳚ । अ॒भि । गाः । अद्रि᳚म् । उ॒ष्णन् ॥
सायणभाष्यम् (Sayana Commentary)
वर्धिता देवानां स्वकलाप्रदानेन वर्धयिता वर्धनः स्वयंवर्धमानः पवित्रेण पूयमानः मीढ्वान् कामानांसेक्ता ससोमः नोस्माकं ज्योतिषा स्वतेजसा अभ्यावीत् अभिरक्षतु । येन सोमेन पदज्ञाः पणिभिरपहृतानां गवांपदानि जानन्तः स्वर्विदः सर्वज्ञाः सूर्यंजान- न्तोवा नोस्माकंपूर्वे चिरन्तनाः पितरोंगिरसःगाः पशूनभिलक्ष्य अद्रिमुष्णन् शिलोच्चय- मुष्णन् सोमतेजसा अंधकारावृतं शिलोच्चयंगत्वा पशूनाहरन्नित्यर्थः । उषिरिहमुष्णाति- समानकर्मा । यद्वा मुष्णातेर्लङि वर्णलोपः ॥ ३९ ॥