श्रवणम्

9.97.12 समानपद
अ॒भि प्रि॒याणि᳚ पवते पुना॒नो दे॒वो दे॒वान्त्स्वेन॒ रसे᳚न पृ॒ञ्चन् ।
इन्दु॒र्धर्मा᳚ण्यृतु॒था वसा᳚नो॒ दश॒ क्षिपो᳚ अव्यत॒ सानो॒ अव्ये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्रि॒याणि᳚ । प॒व॒ते॒ । पु॒ना॒नः । दे॒वः । दे॒वान् । स्वेन᳚ । रसे᳚न । पृ॒ञ्चन् ।
इन्दुः᳚ । धर्मा᳚णि । ऋ॒तु॒॑था । वसा᳚नः । दश᳚ । क्षिपः᳚ । अ॒व्य॒त॒ । सानौ᳚ । अव्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रियाणि प्रीणयितॄणि धर्माणि धारकाणि तेजांसि ऋतुथा कालेकाले वसान् आच्छा- दयन् इन्दुः सोमः पुनानः पूयमानः सन् अभिपवते कलशानभिलक्ष्य क्षरति । कीदृशः देवः संक्रीडनशीलः स्वेन आत्मीयेनरसेन देवानिन्द्रादीन् पृंचन् संपर्चयन् संयोजयन् तमिमं दश दशसंख्याकाः क्षिपः अंगुलिनामैतत् कर्मार्थं प्रेर्यंतइति तत्संख्याकाअंगुलयः सानौ समुच्छ्रिते अव्ये अविभवेपवित्रे अव्यत गमयन्ति यद्वा अत्र पवित्रे पूयमानंसोमं अव्यत गच्छन्ति वीगत्यादिषु लङिव्यत्ययेनात्मनेपदं ॥ १२ ॥