ति॒स्रो वाच᳚ ईरयति॒ प्र वह्नि᳚रृ॒तस्य᳚ धी॒तिं ब्रह्म᳚णो मनी॒षाम् ।
गावो᳚ यन्ति॒ गोप᳚तिं पृ॒च्छमा᳚ना॒ः सोमं᳚ यन्ति म॒तयो᳚ वावशा॒नाः ॥
गावो᳚ यन्ति॒ गोप᳚तिं पृ॒च्छमा᳚ना॒ः सोमं᳚ यन्ति म॒तयो᳚ वावशा॒नाः ॥
पदपाठः (Word-by-word)
ति॒स्रः । वाचः᳚ । ई॒र॒य॒ति॒ । प्र । वह्निः᳚ । ऋ॒तस्य᳚ । धी॒तिम् । ब्रह्म᳚णः । म॒नी॒षाम् ।
गावः᳚ । य॒न्ति॒ । गो॑प᳚तिम् । पृ॒च्छमा᳚नाः । सोम᳚म् । य॒न्ति॒ । म॒तयः᳚ । वा॒व॒शा॒नाः ॥
गावः᳚ । य॒न्ति॒ । गो॑प᳚तिम् । पृ॒च्छमा᳚नाः । सोम᳚म् । य॒न्ति॒ । म॒तयः᳚ । वा॒व॒शा॒नाः ॥
सायणभाष्यम् (Sayana Commentary)
वह्निर्वोढा यजमानः तिस्रोवाचः ऋग्यजुःसामात्मिकाः स्तुतीः प्रेरयति । तथा ऋत- स्य यज्ञस्यधीतिं धारयित्रीं ब्रह्मणःपरिवृढस्य सोमस्य मनीषां मनसईशित्रीं कल्याणीं वाचं च प्रेरयति । किंच गोपतिं वृषभंयथा गावोभिगच्छन्ति तद्वत् । गवांस्वामिनं सोमं गावः पृच्छमानाः पृच्छंत्यः सत्योयन्ति स्वपयसामिश्रयितुमभिगच्छन्ति । तथा वावशानाः कामयमानाः मतयः स्तोतारः सोमं यन्ति स्तोतुमभिगच्छन्ति ॥ ३४ ॥