जु॒ष्ट्वी न᳚ इन्दो सु॒पथा᳚ सु॒गान्यु॒रौ प᳚वस्व॒ वरि᳚वांसि कृ॒ण्वन् ।
घ॒नेव॒ विष्व᳚ग्दुरि॒तानि᳚ वि॒घ्नन्नधि॒ ष्णुना᳚ धन्व॒ सानो॒ अव्ये᳚ ॥
घ॒नेव॒ विष्व᳚ग्दुरि॒तानि᳚ वि॒घ्नन्नधि॒ ष्णुना᳚ धन्व॒ सानो॒ अव्ये᳚ ॥
पदपाठः (Word-by-word)
जु॒ष्ट्वी । नः॒ । इ॒न्दो॒ इति᳚ । सु॒॑पथा᳚ । सु॒॑गानि᳚ । उ॒रौ । प॒व॒स्व॒ । वरि᳚वांसि । कृ॒ण्वन् ।
घ॒ना॑इ᳚व । विष्व᳚क् । दुः॒॑इ॒तानि᳚ । वि॒॑घ्नन् । अधि᳚ । स्नुना᳚ । ध॒न्व॒ । सानौ᳚ । अव्ये᳚ ॥
घ॒ना॑इ᳚व । विष्व᳚क् । दुः॒॑इ॒तानि᳚ । वि॒॑घ्नन् । अधि᳚ । स्नुना᳚ । ध॒न्व॒ । सानौ᳚ । अव्ये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दो दीप्त पवमान जुष्ट्वी स्नात्व्यादयश्चेतिनिपातितः स्तुतिभिः प्रीतोभूत्वा नो- स्माकं सुपथा सुपथानि वैदिकमार्गान् तथा वरिवांसि वरणीयानि धनानि सुगानि सुग- मनानि सुप्राप्तव्यानि कृण्वन् कुर्वन् । उरौ विस्तीर्णे द्रोणकलशे पवस्व क्षर । किंच घनेव घनीभूतेन लोहमयेनायुधेनेव विष्वक् सर्वतोदुरितानि दुःप्राप्तव्यानि रक्षांसि विघ्नन् हिंसन् सानौ समुच्छ्रितेदेशे अव्येअविभवे स्नुना स्रवता धारासंघेन अधिधन्व अधिगच्छ । धविर्गत्यर्थः ॥ १६ ॥