श्रवणम्

9.97.42
मत्सि᳚ वा॒युमि॒ष्टये॒ राध᳚से च॒ मत्सि᳚ मि॒त्रावरु᳚णा पू॒यमा᳚नः ।
मत्सि॒ शर्धो॒ मारु᳚तं॒ मत्सि᳚ दे॒वान्मत्सि॒ द्यावा᳚पृथि॒वी दे᳚व सोम ॥
▶ पदपाठः (Word-by-word)
मत्सि᳚ । वा॒युम् । इ॒ष्टये᳚ । राध᳚से । च॒ । मत्सि᳚ । मि॒त्रावरु᳚णा । पू॒यमा᳚नः ।
मत्सि᳚ । शर्धः᳚ । मारु᳚तम् । मत्सि᳚ । दे॒वान् । मत्सि᳚ । द्यावा᳚पृथि॒वी इति᳚ । दे॒व॒ । सो॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं वायुं मत्सि मादय । किमर्थं अस्माकमेषणाय अन्नाय राधसे धनाय च । तथा पूयमानः पवित्रेण त्वं मित्रावरुणा च मत्सि तर्पयसि । किंच मारुतं मरुतां स्वभूतं रार्धोबलं च मत्सि । तथा देवानिन्द्रादीन् मत्सि हर्षयसि । हेदेव स्तोतव्य हेसोम द्यावापृथिवी द्यावापृथिव्यौ च मत्सि मादय एतान् हर्षयुक्तान् कृत्वास्मभ्यंधनं प्रयच्छेत्यर्थः ॥ ४२ ॥