श्रवणम्

9.97.17
वृ॒ष्टिं नो᳚ अर्ष दि॒व्यां जि᳚ग॒त्नुमिळा᳚वतीं शं॒गयीं᳚ जी॒रदा᳚नुम् ।
स्तुके᳚व वी॒ता ध᳚न्वा विचि॒न्वन्बन्धू{4}᳚रि॒मा{4} अव᳚रा{4} इन्दो वा॒यून् ॥
▶ पदपाठः (Word-by-word)
वृ॒ष्टिम् । नः॒ । अ॒र्ष॒ । दि॒व्याम् । जि॒ग॒त्नुम् । इळा᳚॑वतीम् । श॒म्॑गयी᳚म् । जी॒र॑दा᳚नुम् ।
स्तुका᳚॑इव । वी॒ता । ध॒न्व॒ । वि॒॑चि॒न्वन् । बन्धू᳚न् । इ॒मान् । अव᳚रान् । इ॒न्दो॒ इति᳚ । वा॒यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम नोस्माकं वृष्टिं अर्ष गमय । कीदृशीं दिव्यां दिविभवां जिगत्नुं गमनशीलं इरावतीं अन्नवतीं शंगयीं सूखस्यनिवासभूतां जीरदानुं क्षिप्रदानोपेताम् । किंच हे इन्दो त्वं स्तुकेववीता कांतानि स्तुकशब्दोपत्यवचनः अपत्यानि यथाविचिनोषि तद्वत् बन्धून् स्तुत्यस्तोतृत्वेन बन्धुभूतान् अवरान् अवरदेशेस्थितान् पर्थिवान् वायून् त्वां अभिगच्छ्त इमानस्मान् विचिन्वन् धनादिप्रदानार्थं गवेषमाणःसन् धन्व गच्छ ॥ १७ ॥