ए॒वा दे᳚व दे॒वता᳚ते पवस्व म॒हे सो᳚म॒ प्सर᳚से देव॒पानः᳚ ।
म॒हश्चि॒द्धि ष्मसि᳚ हि॒ताः स᳚म॒र्ये कृ॒धि सु᳚ष्ठा॒ने रोद᳚सी पुना॒नः ॥
म॒हश्चि॒द्धि ष्मसि᳚ हि॒ताः स᳚म॒र्ये कृ॒धि सु᳚ष्ठा॒ने रोद᳚सी पुना॒नः ॥
पदपाठः (Word-by-word)
ए॒व । दे॒व॒ । दे॒व॑ता᳚ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर᳚से । दे॒व॒॑पानः᳚ ।
म॒हः । चि॒त् । हि । स्मसि᳚ । हि॒ताः । स॒॑म॒र्ये । कृ॒धि । सु॒॑स्था॒ने । रोद᳚सी॒ इति᳚ । पु॒ना॒नः ॥
म॒हः । चि॒त् । हि । स्मसि᳚ । हि॒ताः । स॒॑म॒र्ये । कृ॒धि । सु॒॑स्था॒ने । रोद᳚सी॒ इति᳚ । पु॒ना॒नः ॥
सायणभाष्यम् (Sayana Commentary)
हेदेव द्योतमान स्तोतव्य वा हेसोम देवपानः देवैः पातव्यस्त्वं देवताते देवैस्तते वित ते यज्ञे महे महते प्सरसे भक्षणाय देवानांपानाय एव एवं पवस्व क्षर । ततोवयं हिताः त्वयाप्रेरिताः सन्तः समर्ये मरणधर्मरहिते संग्रामे महश्चित् महतोबलाधिकानपि शत्रून् स्मसिहि अभिभवेम खलु । किंच पुनानः पूयमानस्त्वं रोदसी द्यावापृथिव्यौ सुस्थाने अस्माकं शोभनावासस्थाने सत्यौ कृधि कुरु ॥ २७ ॥