श्रवणम्

9.97.21
ए॒वा न᳚ इन्दो अ॒भि दे॒ववी᳚तिं॒ परि᳚ स्रव॒ नभो॒ अर्ण᳚श्च॒मूषु᳚ ।
सोमो᳚ अ॒स्मभ्यं॒ काम्यं᳚ बृ॒हन्तं᳚ र॒यिं द᳚दातु वी॒रव᳚न्तमु॒ग्रम् ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । इ॒न्दो॒ इति᳚ । अ॒भि । दे॒व॑वी᳚तिम् । परि᳚ । स्र॒व॒ । नभः᳚ । अर्णः᳚ । च॒मूषु᳚ ।
सोमः᳚ । अ॒स्मभ्य᳚म् । काम्य᳚म् । बृ॒हन्त᳚म् । र॒यिम् । द॒दा॒तु॒ । वी॒र॑व᳚न्तम् । उ॒ग्रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम नोस्मदीयमेव देववीतिं देवानांवीतिर्भक्षणं गमनंवा यस्मिन् देववीति- र्यज्ञः तमभिलक्ष्य नभोनभसोद्युलोकात् अर्णउदकं अनेनपव् इत्रान्निर्गतः सोमरसोभिधीयते तं रसं चमूषु चमसेषु परिस्रव परितःक्षर । ततः सोमः काम्यं काम्यमानं बृहन्तं प्रवृद्धं वीरवन्तं पुत्रयुक्तं उग्रमुद्गूर्णबलं रयिं धनं अस्मभ्यं ददातु प्रयच्छतु ॥ २१ ॥