श्रवणम्

9.97.23
प्र दा᳚नु॒दो दि॒व्यो दा᳚नुपि॒न्व ऋ॒तमृ॒ताय᳚ पवते सुमे॒धाः ।
ध॒र्मा भु᳚वद्वृज॒न्य᳚स्य॒ राजा॒ प्र र॒श्मिभि᳚र्द॒शभि᳚र्भारि॒ भूम᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । दा॒नु॒॑दः । दि॒व्यः । दा॒नु॒॑पि॒न्वः । ऋ॒तम् । ऋ॒ताय᳚ । प॒व॒ते॒ । सु॒॑मे॒धाः ।
ध॒र्मा । भु॒व॒त् । वृ॒ज॒न्य᳚स्य । राजा᳚ । प्र । र॒श्मि॑भिः᳚ । द॒श॑भिः᳚ । भा॒रि॒ । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिव्योदिविभवः दानुदः दातृभ्योधनादीनांदाता तदेवाह दानुपिन्वः पिविसेचने कर्मण्यणित्यण् दातृभ्यः कामानां रक्षयिता सुमेधाः शोभनप्रज्ञः सोमः ऋताय सत्यभूता- येन्द्राय तं सत्यभूतमात्मीयं रसंपवते प्रकर्षेण क्षरति । राजा दीप्यमानः सोमः वृजन्यस्य साधुबलस्य धर्मा धारयिता भुवद्भवति । किंच दशभिः एतत्संज्ञकाभीरश्मिभिः कर्म- करणार्थमश्नुवानाभिः अंगुलिभिः भूम प्रभूतं प्रभारि प्रभार्यते चिणिरूपं ॥ २३ ॥