नवमं मण्डलम् - सूक्तम् 15

8 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.15 - सम्पूर्णम्

1 / 8
ऋक्: 9.15.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
9.15.1
ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे᳚भिरा॒शुभि᳚ः ।
गच्छ॒न्निन्द्र᳚स्य निष्कृ॒तम् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । धि॒या । या॒ति॒ । अण्व्या᳚ । शूरः᳚ । रथे᳚भिः । आ॒शु॑भिः᳚ ।
गच्छ᳚न् । इन्द्र᳚स्य । निः॒॑कृ॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमः शूरोविक्रान्तः अण्व्या अंगुल्याभिषुतो धिया कर्मणा याति गच्छति । कं देशं प्रति उच्यते-इन्द्रस्यनिष्कृतं स्थानं दिवं प्रति रथेभीर- थैराशुभिः शीघ्रगामिभिः गच्छन् इन्द्रेण रथेवस्थाप्य स्वस्थाननयनाय अंगुल्याभिषूयमाणःसन् होमद्वाराग्निनिष्पीडनद्वारा पात्रं वा गच्छतीत्यर्थः ॥ १ ॥

9.15.2
ए॒ष पु॒रू धि᳚यायते बृह॒ते दे॒वता᳚तये ।
यत्रा॒मृता᳚स॒ आस᳚ते ॥
▶ पदपाठः (Word-by-word)
ए॒षः । पु॒रु । धि॒या॒॑य॒ते॒ । बृ॒ह॒ते । दे॒व॑ता᳚तये ।
यत्र᳚ । अ॒मृता᳚सः । आस᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषः सोमः पुरु बहुलं धियायते धियं कर्मेच्छति धीशब्दात् यकारोपजनः । यद्वा द्वितीयार्थेतृतीया छान्दसश्चालुक् । कस्मै बृहते महते देवतातये यज्ञाय यत्रयस्मिन्यज्ञे अमृतासः अमृतादेवा आसते वसन्ति तदर्थं ॥ २ ॥

9.15.3
ए॒ष हि॒तो वि नी᳚यते॒॑न्तः शु॒भ्राव᳚ता प॒था ।
यदी᳚ तु॒ञ्जन्ति॒ भूर्ण᳚यः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । हि॒तः । वि । नी॒य॒ते॒ । अ॒न्तरिति᳚ । शु॒भ्र॑व᳚ता । प॒था ।
यदि᳚ । तु॒ञ्जन्ति᳚ । भूर्ण᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एष सोमो हितो निहितो हविर्धाने विनीयते तस्मात् स्थानात् आहवनीयंप्रति अन्तः तयोर्मध्यदेशे शुभ्रावता शोभावता पथा मार्गेण यदि यदा तुंजन्ति प्रयच्छन्ति देवेभ्यो भूर्णयो भरणशीलाअध्वर्य्वादयः । तदा विनीयत इतिसमन्वयः ॥ ३ ॥

9.15.4
ए॒ष शृङ्गा᳚णि॒ दोधु᳚व॒च्छिशी᳚ते यू॒थ्यो॒३॒᳚ वृषा᳚ ।
नृ॒म्णा दधा᳚न॒ ओज᳚सा ॥
▶ पदपाठः (Word-by-word)
ए॒षः । शृङ्गा᳚णि । दोधु᳚वत् । शिशी᳚ते । यू॒थ्यः᳚ । वृषा᳚ ।
नृ॒म्णा । दधा᳚नः । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमः शृंगाणि शृंगवदुन्नतान् अंशून् अभिषवकाले दोधुवत् धूनोति यूथ्यो यूथार्होयूथपति र्वृषा वृषभोयथा शिशीते तीक्ष्णे शृंगे धूनोति तद्वत् । कीदृशएषः ओजसा बलेन नृम्णा नृम्णानि धनानि दधानोस्मदर्थं धारयन् ॥ ४ ॥

9.15.5
ए॒ष रु॒क्मिभि᳚रीयते वा॒जी शु॒भ्रेभि᳚रं॒शुभि᳚ः ।
पति॒ः सिन्धू᳚नां॒ भव᳚न् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । रु॒क्मि॑भिः᳚ । ई॒य॒ते॒ । वा॒जी । शु॒भ्रेभिः᳚ । अं॒शु॑भिः᳚ ।
पतिः᳚ । सिन्धू᳚नाम् । भव᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमो रुक्मिभिः अध्वर्य्वादिभिः सह ईयते गच्छति । कीदृशएषः वाजी वेजनवान् शुभ्रेभिः शुभ्रैः दीप्तैः अंशुभिर्विशिष्टः अथवा रुक्मिभिरित्ये- तदप्यंशुविशेषणम् । सिधूनां स्यन्दमानानां रसानां पतिर्भवन् य ईयतइति ॥ ५ ॥

9.15.6
ए॒ष वसू᳚नि पिब्द॒ना परु᳚षा ययि॒वा{4} अति᳚ ।
अव॒ शादे᳚षु गच्छति ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वसू᳚नि । पि॒ब्द॒ना । परु᳚षा । य॒यि॒॑वान् । अति᳚ ।
अव᳚ । शादे᳚षु । ग॒च्छ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमो वसून्याच्छादकानि पिब्दना पीडितानि रक्षांसि परुषा पर्वणा अति अतिक्रम्य ययिवान् गच्छन् शादेषु शातनीयेषु रक्षःसु अवगच्छति ॥ ६ ॥

9.15.7
ए॒तं मृ᳚जन्ति॒ मर्ज्य॒मुप॒ द्रोणे᳚ष्वा॒यवः᳚ ।
प्र॒च॒क्रा॒णं म॒हीरिषः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । मृ॒ज॒न्ति॒ । मर्ज्य᳚म् । उप᳚ । द्रोणे᳚षु । आ॒यवः᳚ ।
प्र॒॑च॒क्रा॒णम् । म॒हीः । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयवोमनुष्या ऋत्विजः एतं सोमं मर्ज्यं मार्जनीयं उपमृजन्ति निष्पीडयन्तीत्यर्थः । कुत्र द्रोणेषु द्रोणकलशेषु । कीदृशं महीरिषः महान्त्यन्नानि प्रचक्राणं कुर्वाणं प्रभूतरसस्राविणमित्यर्थः ॥ ७ ॥

9.15.8
ए॒तमु॒ त्यं दश॒ क्षिपो᳚ मृ॒जन्ति᳚ स॒प्त धी॒तयः᳚ ।
स्वा॒यु॒धं म॒दिन्त᳚मम् ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । ऊं॒ इति᳚ । त्यम् । दश᳚ । क्षिपः᳚ । मृ॒जन्ति᳚ । स॒प्त । धी॒तयः᳚ ।
सु॒॑आ॒यु॒धम् । म॒दिन्॑त᳚मम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यं तं एतमु एतमेव सोमं दशक्षिपो दशांगुलयो मृजन्ति परिचरन्ति । सप्तधीतयः सप्तर्त्विजश्च ऋत्विजोगुलिभिर्मृजन्तीत्यर्थः । कीदृशमेतं स्वायुधं शोभनमायुधं मदिन्तमं मादयितृतमं रक्षोहननसामर्थ्यप्रदर्शनाय स्वायुधशब्दश्रवणम् ॥ ८ ॥

प्रतेसोतारइत्यष्टर्चं षोडशं सूक्तं ऋष्याद्याः पूर्ववत् । प्रतेइत्यनुक्रान्तम् । गतोविनियोगः ।