उद्वाच᳚मी॒रय᳚ति हि॒न्वते᳚ म॒ती पु᳚रुष्टु॒तस्य॒ कति᳚ चित्परि॒प्रियः᳚ ॥
पदपाठः (Word-by-word)
उत् । वाच᳚म् । ई॒रय᳚ति । हि॒न्वते᳚ । म॒ती । पु॒रु॒॑स्तु॒तस्य᳚ । कति᳚ । चि॒त् । प॒रि॒॑प्रियः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हरिं हरितवर्णं सोमं ऋत्विजोमृजन्ति मार्जयन्ति । मृजेरजादौ संक्रमे विभाषा वृद्धि- रिष्यतइति तत्रवृद्धेरभावः । सोयमरुषोन अर्तेरुषत् प्रत्ययः गमनशीलोश्वइव युज्यते इन्द्रा दिभिः संयुज्यते । किंच कलशे कलशोद्रोणाभिधानः स्थितः सोमः धेनुभिः गोविकारैः दध्यादिभिः समज्यते समक्तः सिक्तोभवति । अपिच सोमोयदा वाचंशब्दमुदीरयति उद्ग मयति शब्दं करोतीत्यर्थः तदा स्तोता रश्च मती सुपां सुलुगिति द्वितीयायाःपूर्वसवर्ण- दीर्घः स्तुतिं हिन्वते प्रेरयन्ति हिगतौ वृद्धौचेति स्वादिः आत्मनेपदी ततः स्तोत्राभिष्टुतः सपुरुष्टुतस्य बहुस्तोत्रयुक्तस्य स्तोतुः परिप्रियः प्रीङ् तर्पणे क्विप् शसि इयङादेशःकृदुत्तर- पदप्रकृतिस्वरत्वं परितः प्रीणयितॄणि कतिचित् कियन्ति धनानि प्रयच्छन्ति ॥ १ ॥