स तू प᳚वस्व॒ परि॒ पार्थि᳚वं॒ रजः᳚ स्तो॒त्रे शिक्ष᳚न्नाधून्व॒ते च᳚ सुक्रतो ।
मा नो॒ निर्भा॒ग्वसु᳚नः सादन॒स्पृशो᳚ र॒यिं पि॒शङ्गं᳚ बहु॒लं व᳚सीमहि ॥
मा नो॒ निर्भा॒ग्वसु᳚नः सादन॒स्पृशो᳚ र॒यिं पि॒शङ्गं᳚ बहु॒लं व᳚सीमहि ॥
पदपाठः (Word-by-word)
सः । तु । प॒व॒स्व॒ । परि᳚ । पार्थि᳚वम् । रजः᳚ । स्तो॒त्रे । शिक्ष᳚न् । आ॒॑धू॒न्व॒ते । च॒ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो ।
मा । नः॒ । निः । भा॒क् । वसु᳚नः । स॒द॒न॒॑स्पृशः᳚ । र॒यिम् । पि॒शङ्ग᳚म् । ब॒हु॒लम् । व॒सी॒म॒हि॒ ॥
मा । नः॒ । निः । भा॒क् । वसु᳚नः । स॒द॒न॒॑स्पृशः᳚ । र॒यिम् । पि॒शङ्ग᳚म् । ब॒हु॒लम् । व॒सी॒म॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सुक्रतो शोभनकर्मन् सुप्रज्ञवा सोम तादृशस्त्वं पार्थिवं रजः लोकं लक्षीकृत्य तु क्षिप्रं परिपवस्व परितः सर्वतः क्षर । किंकुर्वन् आधून्वते अदाभ्यग्रहान्त्रिभिरंशुभिराधा- वनंकुर्वते । तथा भगवतापस्तंबेन सूत्रितं—तैरेनंचतुराधुनोति पंचकृत्वः सप्तकृत्वोवेति । तस्मै स्तोत्रे धनादिकंशिक्षन् प्रयच्छन् परिपवस्वेति समन्वयः । ततस्त्वंनोस्मान् वसुनो धनान् मानिर्भाक् मानिर्भांक्षीः । कीदृशान् सदनस्पृशः येनभूतेन वसुना सदना सदनानि गृहान् पुत्रादीन् स्पृशन्ति तादृशान् ग्रहादिकस्य प्रदातुः धनान्मावियुजः । भाक् भजसेवायां लुङि सिपि बहुलंछन्दसीतीडागमाभावः । एकाचइतीट् प्रतिषेधः हलन्तलक्षणावृद्धिः सिपो- लोपः । यस्मादेवं तस्माद्वयं पिशंगं नानारूपं कनकादिना अतएव बहुलं प्रभूतं रयिं धनं वसीमहि आच्छादयेम बहुधनवन्तोभवेमेत्यर्थः वसआच्छादने आदादिकः लिङिरूपं ॥ ८ ॥