श्रवणम्

9.72.6
अं॒शुं दु᳚हन्ति स्त॒नय᳚न्त॒मक्षि᳚तं क॒विं क॒वयो॒॑पसो᳚ मनी॒षिणः᳚ ।
समी॒ गावो᳚ म॒तयो᳚ यन्ति सं॒यत᳚ ऋ॒तस्य॒ योना॒ सद᳚ने पुन॒र्भुवः᳚ ॥
▶ पदपाठः (Word-by-word)
अं॒शुम् । दु॒ह॒न्ति॒ । स्त॒नय᳚न्तम् । अक्षि᳚तम् । क॒विम् । क॒वयः᳚ । अ॒पसः᳚ । म॒नी॒षिणः᳚ ।
सम् । ई॒मिति᳚ । गावः᳚ । म॒तयः᳚ । य॒न्ति॒ । स॒म्॑यतः᳚ । ऋ॒तस्य᳚ । योना᳚ । सद᳚ने । पु॒नः॒॑भुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कवयः क्रान्तप्रज्ञाः अपसः कर्मवन्तः मनीषिणः मनसईशा मनीषा बुद्धिः तद्वन्तः ऋ- त्विजः स्तनयन्तं शब्दायमानं अक्षितमक्षीणं कविं क्रान्तदर्शिनं अश्रुं सोमं दुहन्ति अभिषु- ण्वन्ति । ततः पुनर्भुवः पुनर्भवनशीलाः गावः पशवः मतयोमननीयाः स्तुतयश्च संयतः पर स्परं संगताः सत्यः ऋतस्य सत्यभूतस्य यज्ञस्य योना योनौ योनिस्थानीये उत्पत्तिभूते सदने उत्तरवेद्याख्ये ईमेनं सोमं संयन्ति संगच्छन्ति ॥ ६ ॥