नृबा॒हुभ्यां᳚ चोदि॒तो धार᳚या सु॒तो᳚॑नुष्व॒धं प᳚वते॒ सोम᳚ इन्द्र ते ।
आप्रा॒ः क्रतू॒न्त्सम᳚जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒᳚रास᳚द॒द्धरि᳚ः ॥
आप्रा॒ः क्रतू॒न्त्सम᳚जैरध्व॒रे म॒तीर्वेर्न द्रु॒षच्च॒म्वो॒३॒᳚रास᳚द॒द्धरि᳚ः ॥
पदपाठः (Word-by-word)
नृ॒बा॒हु॑भ्या᳚म् । चो॒दि॒तः । धार᳚या । सु॒तः । अ॒नु॒॑स्व॒धम् । प॒व॒ते॒ । सोमः᳚ । इ॒न्द्र॒ । ते॒ ।
आ । अ॒प्राः॒ । क्रतू᳚न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒॑सत् । च॒म्वोः᳚ । आ । अ॒स॒द॒त् । हरिः᳚ ॥
आ । अ॒प्राः॒ । क्रतू᳚न् । सम् । अ॒जैः॒ । अ॒ध्व॒रे । म॒तीः । वेः । न । द्रु॒॑सत् । च॒म्वोः᳚ । आ । अ॒स॒द॒त् । हरिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र पवमानगुणविशिष्ट नृबाहुभ्यां कर्मनेतॄणामृत्विजां बाहुभ्यां चोदितः प्रेरितः धारया सुतोभिषुतः यथा धाराभवति तथाभिषुतइत्यर्थः । तादृशः सोमः ते तवनुष्वधं बलमनु बलार्थं यद्वा स्वधेत्यन्ननाम अन्नार्थं पवते आगच्छति । ततः सत्वं सोमपानेन क्रतून् कर्माणि आप्राः आपूरयसि । किंच अध्वरे यज्ञे मतीः अभिमानान् शत्रून् समजै सम्यक् जितवानसि । जिजये । लुङि सिपि सिचोबहुलं छन्दसीतीडभावः । सिचिवृद्धिरिति वृद्धिः । सोयं हरिर्हरितवर्णः सोमः चम्वोरधिषवणफलकयोः आसददासीदति । तत्रदृष्टा- न्तः—वेर्न वीगत्यादिषु अन्येभ्योपि दृश्यतइति विच् सार्वधातुकार्धधातुकयोरितिगुणः । यथा वेः पक्षी द्रुषत् द्रुमेसीदतीति तद्वत् द्रुषदिति पूर्वप्दादितिषत्वम् ॥ ५ ॥