अ॒पो वृ᳚णा॒नः प᳚वते कवी॒यन्व्र॒जं न प᳚शु॒वर्ध᳚नाय॒ मन्म᳚ ॥
पदपाठः (Word-by-word)
अ॒पः । वृ॒णा॒नः । प॒व॒ते॒ । क॒वि॒॑यन् । व्र॒जम् । न । प॒शु॒॑वर्ध᳚नाय । मन्म᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदास्मिन् सोमे वाजिनीव शुभः अश्वेयथा वस्त्रप्रभृत्यलंकाराभवन्ति । यदावास्मिन् सोमे सूर्येन यथासूर्ये विशोरश्मयउदिताभवन्ति तदा धियोंगुलयः अधिस्पर्धन्ते अहंपुरस्ता च्छोधयामि अहंपुरस्ताच्छोधयामीत्यहमहमिकया उपतिष्ठन्ति । ततोयंसोमः अपोवसतीवरी र्वृणानः आच्छादयन् पवते पात्रेषु क्षरति कलशानि अधिगच्छति । कीदृशः कवीयन् कविरिवाचरन् । यद्वा कवयःस्तोतारः तानिच्छन् तत्रदृष्टान्तः—व्रजंन मन्म मननीयं गवां गोष्ठं पशुवर्धनाय पशूनां वर्धनाय गोपालः परिगच्छति तथा देवानां प्रीणनाय पात्राणि- प्रति पवतइति ॥ १ ॥