इष॒मूर्ज᳚म॒भ्य१॒᳚र्षाश्वं॒ गामु॒रु ज्योति᳚ः कृणुहि॒ मत्सि᳚ दे॒वान् ।
विश्वा᳚नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव᳚मान॒ बाध᳚से सोम॒ शत्रू᳚न् ॥
विश्वा᳚नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव᳚मान॒ बाध᳚से सोम॒ शत्रू᳚न् ॥
पदपाठः (Word-by-word)
इष᳚म् । ऊर्ज᳚म् । अ॒भि । अ॒र्ष॒ । अश्व᳚म् । गाम् । उ॒रु । ज्योतिः᳚ । कृ॒णु॒हि॒ । मत्सि᳚ । दे॒वान् ।
विश्वा᳚नि । हि । सु॒॑सहा᳚ । तानि᳚ । तुभ्य᳚म् । पव᳚मान । बाध᳚से । सो॒म॒ । शत्रू᳚न् ॥
विश्वा᳚नि । हि । सु॒॑सहा᳚ । तानि᳚ । तुभ्य᳚म् । पव᳚मान । बाध᳚से । सो॒म॒ । शत्रू᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम इषं अन्नं ऊर्जमन्नरसंच अस्मभ्यमभ्यर्ष अभिगमय । किंच अश्वं वाहनं गां पयःप्रदानेन यज्ञस्यसाधनभूतां गां च तथा उरु महत् ज्योतिः सूर्याख्यं कृणुहि जगदा- लोकनार्थंकुरु । किंच देवानिन्द्रादीन् मत्सि सोमेन तर्पय मदेर्लटि बहुलंछन्दसीति विकर- णस्यलुक् वाक्यभेदादनिघातः । अपिच हेसोम तुभ्यं तानि विश्वानि सर्वाणि रक्षांसि सुषहा सुसहानि अनायासेनैव अभिभवितुं शक्यानि भवन्ति । हिरवधारणे । अतएव हे पवमान पूयमान हेसोम सर्वान् शत्रून् बाधसे जहि ॥ ५ ॥
कनिक्रन्तीति पंचर्चंदशमंसूक्तं कण्वपुत्रस्य प्रस्कण्वस्यार्षम् । तथानुक्रम्यते । कनिक्रन्ति- प्रस्कण्वइति । पूर्ववच्छन्दोदेवते । गतोविनियोगः ।