नवमं मण्डलम् - सूक्तम् 27

6 ऋचः

ऋषिः: नृमेध देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.27 - सम्पूर्णम्

1 / 6
ऋक्: 9.27.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.27.1
ए॒ष क॒विर॒भिष्टु᳚तः प॒वित्रे॒ अधि᳚ तोशते ।
पु॒ना॒नो घ्नन्नप॒ स्रिधः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒षः । क॒विः । अ॒भि॑स्तु᳚तः । प॒वित्रे᳚ । अधि᳚ । तो॒श॒ते॒ ।
पु॒ना॒नः । घ्नन् । अप᳚ । स्रिधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमः कविर्मेधावी अभिष्टुतः अभितः स्तुतः पवित्रेअधि दशापवित्रमतीत्य तोशते । यद्यपि तोशतिर्वधकमां तथापि हनने गतिसद्भावादत्र गतिमात्रेवर्तते गच्छतीत्यर्थः । अथवा पवित्रेअधि कृष्णाजिने तोशते हन्यते पीड्यतइत्यर्थः । किंकुर्वन् पुनानः पूयमानः स्रिधः शत्रूनपघ्नन् अपगमयन् ॥ १ ॥

9.27.2
ए॒ष इन्द्रा᳚य वा॒यवे᳚ स्व॒र्जित्परि᳚ षिच्यते ।
प॒वित्रे᳚ दक्ष॒साध᳚नः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । इन्द्रा᳚य । वा॒यवे᳚ । स्वः॒॑जित् । परि᳚ । सि॒च्य॒ते॒ ।
प॒वित्रे᳚ । द॒क्ष॒॑साध᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमः स्वर्जित् स्वर्गस्य सर्वस्य वा जेता सोम इन्द्राय वायवेच पतित्रे परिषिच्यते । कीदृश एवदक्षसाधनः बलकारी ॥ २ ॥

9.27.3
ए॒ष नृभि॒र्वि नी᳚यते दि॒वो मू॒र्धा वृषा᳚ सु॒तः ।
सोमो॒ वने᳚षु विश्व॒वित् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । नृ॑भिः᳚ । वि । नी॒य॒ते॒ । दि॒वः । मू॒र्धा । वृषा᳚ । सु॒तः ।
सोमः᳚ । वने᳚षु । वि॒श्व॒॑वित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमो नृभिः कर्मनेतृभिः ऋत्वि ग्भिर्विनीयते विविधं नीयते । एष कीदृशः दिवोद्युलोकस्य मूर्धा शिरोवत्प्रधानभूतः वृषा अभिमतवर्षकः सुतोभिषुतः । कुत्र नीयते वनेषु वननीयेषु पात्रेषु वनसंभूतद्रुमविकारेषुवा पात्रेषु । विश्ववित् सर्वज्ञएषइति समन्वयः ॥ ३ ॥

9.27.4
ए॒ष ग॒व्युर᳚चिक्रद॒त्पव᳚मानो हिरण्य॒युः ।
इन्दु᳚ः सत्रा॒जिदस्तृ᳚तः ॥
▶ पदपाठः (Word-by-word)
ए॒षः । ग॒व्युः । अ॒चि॒क्र॒द॒त् । पव᳚मानः । हि॒र॒ण्य॒॑युः ।
इन्दुः᳚ । स॒त्रा॒॑जित् । अस्तृ᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमः पवमानः पूयमानः अचिक्रदत् शब्दंकरोति । कथंभूतःसन् गव्युः अस्माकं गाइच्छन् हिरण्ययुः धनमिच्छन् इन्दुर्दीप्तःसन् सत्राजित् महतः शत्रोरसुरादेर्जेता अस्तृतः स्वयमन्यैरहिंस्यश्चसन् ॥ ४ ॥

9.27.5
ए॒ष सूर्ये᳚ण हासते॒ पव᳚मानो॒ अधि॒ द्यवि᳚ ।
प॒वित्रे᳚ मत्स॒रो मदः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒षः । सूर्ये᳚ण । हा॒स॒ते॒ । पव᳚मानः । अधि᳚ । द्यवि᳚ ।
प॒वित्रे᳚ । म॒त्स॒रः । मदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषपवमानः पूयमानः सोमः सूर्येण देवेन अधिद्यवि द्युलोकेन्तरिक्षे पवित्रे हासते परित्यज्यते मत्सरो मदकरः मदः सोमः यद्यप्यध्वर्युहस्ताद्द- शापवित्रे परित्यज्यते सोमः तथापि अन्तरिक्षे सूर्येण पवित्रेत्यज्यतइति भावना वीर्यवत्वाय । सत्स्वप्यन्यदेषेषु सोमस्रावणे सूर्यस्य कःप्रसं- गइति नवाच्यं सूर्यरश्मिभिरेव सोमस्याप्यायनात् ॥ ५ ॥

9.27.6
ए॒ष शु॒ष्म्य᳚सिष्यदद॒न्तरि᳚क्षे॒ वृषा॒ हरि᳚ः ।
पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥
▶ पदपाठः (Word-by-word)
ए॒षः । शु॒ष्मी । अ॒सि॒स्य॒द॒त् । अ॒न्तरि᳚क्षे । वृषा᳚ । हरिः᳚ ।
पु॒ना॒नः । इन्दुः᳚ । इन्द्र᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषशुप्मी बलवान्सोमोन्तरिक्षे दशापवित्रे असिष्यदत् स्यन्दते । कीदृशएषः वृषा वर्षकोहरिर्हरितवर्णः पुनानः पयमानइन्दुर्दीप्तश्च इन्द्रमा इन्द्रंचाभिगच्छतीतिशेषः । आइतिचार्थे ॥ ६ ॥

एषवाजीति षळृचं चतुर्थं सूक्तं प्रियमेधस्यार्षं गायत्रं सौम्यम् । एषवाजीप्रियमेधइत्यनुक्रान्तम् । गतोविनियोगः ।