नवमं मण्डलम् - सूक्तम् 16

8 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.16 - सम्पूर्णम्

1 / 8
ऋक्: 9.16.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
9.16.1
प्र ते᳚ सो॒तार᳚ ओ॒ण्यो॒३॒᳚ रसं॒ मदा᳚य॒ घृष्व᳚ये ।
सर्गो॒ न त॒क्त्येत᳚शः ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । सो॒तारः᳚ । ओ॒ण्योः᳚ । रस᳚म् । मदा᳚य । घृष्व᳚ये ।
सर्गः᳚ । न । त॒क्ति॒ । एत᳚शः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव रसं सोतारः सोमाभिषवकर्तारः ओण्योः रसं लुप्तोपममेतत् द्यावापृथिव्यारसमुदकमिव अथवा ओण्योर्द्यावापृथिव्योर्मध्ये तयोः संबन्धिनंवा रसं प्रस्रावयन्तीतिशेषः । किमर्थं घृष्वये शत्रुघषर्णशीलाय मदाय इन्द्रस्य मदाय अभिषवजनितः सोमः सर्गः सृष्टः एतशोन अश्वइव तक्ति गच्छति पात्रं प्रति ॥ १ ॥

9.16.2
क्रत्वा॒ दक्ष᳚स्य र॒थ्य᳚म॒पो वसा᳚न॒मन्ध᳚सा ।
गो॒षामण्वे᳚षु सश्चिम ॥
▶ पदपाठः (Word-by-word)
क्रत्वा᳚ । दक्ष᳚स्य । र॒थ्य᳚म् । अ॒पः । वसा᳚नम् । अन्ध᳚सा ।
गो॒॑साम् । अण्वे᳚षु । स॒श्चि॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयमभिषोतारः दक्षस्य बलस्य रथ्यं नेतारं अपउदकानि रसान् वसानं आच्छादयन्तं अंधसा श्रयणान्नेन सहितं गोषां गवां सोतारं एवमुक्तलक्षणं सोमं क्रत्वा कर्मणा अण्वेषु अंगुलीषु सश्चिम संयोजयामः ॥ २ ॥

9.16.3
अन᳚प्तम॒प्सु दु॒ष्टरं॒ सोमं᳚ प॒वित्र॒ आ सृ᳚ज ।
पु॒नी॒हीन्द्रा᳚य॒ पात᳚वे ॥
▶ पदपाठः (Word-by-word)
अन᳚प्तम् । अ॒प्॑सु । दु॒स्तर᳚म् । सोम᳚म् । प॒वित्रे᳚ । आ । सृ॒ज॒ ।
पु॒नी॒हि । इन्द्रा᳚य । पात᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनप्तं शत्रुभिरनाप्तं अप्स्वान्तरिक्ष्यासु वर्तमानमितिशेषः दुष्टरं अन्यैरनभिभाव्यं नहि सोमं कश्चिदप्यतितरति ईदृशं सोमं पवित्रे दशापवित्रे आसृज प्रक्षिप । हे अध्वर्यो तवोच्यते । इन्द्रायेन्द्रस्य पातवे पातुं पुनीहि ॥ ३ ॥

9.16.4
प्र पु᳚ना॒नस्य॒ चेत᳚सा॒ सोमः᳚ प॒वित्रे᳚ अर्षति ।
क्रत्वा᳚ स॒धस्थ॒मास᳚दत् ॥
▶ पदपाठः (Word-by-word)
प्र । पु॒ना॒नस्य᳚ । चेत᳚सा । सोमः᳚ । प॒वित्रे᳚ । अ॒र्ष॒ति॒ ।
क्रत्वा᳚ । स॒ध॑स्थ᳚म् । आ । अ॒स॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चेतसा स्तुत्या पुनानस्य पूयमानस्य अंशीभूतः सोमः पवित्रे दशापवित्रे अर्षति गच्छति । अथ पश्चात् क्रत्वा कर्मणा प्रज्ञानेनवा सधस्थं सहस्थानं द्रोणकलशे आसदत् आसीदति ॥ ४ ॥

9.16.5
प्र त्वा॒ नमो᳚भि॒रिन्द᳚व॒ इन्द्र॒ सोमा᳚ असृक्षत ।
म॒हे भरा᳚य का॒रिणः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । त्वा॒ । नमः᳚॑भिः । इन्द᳚वः । इन्द्र᳚ । सोमाः᳚ । अ॒सृ॒क्ष॒त॒ ।
म॒हे । भरा᳚य । का॒रिणः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वां नमोभिर्नमस्कारोपलक्षितैः स्तोत्रैः अथवा अन्नैः सह इन्दवः सोमाः प्रासृक्षत प्रामुवन्ति । किमर्थं महे महते भराय संग्रामाय कीदृशाः कारिणो बलकरणशीलाः ॥ ५ ॥

9.16.6
पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष᳚न्न॒भि श्रियः᳚ ।
शूरो॒ न गोषु᳚ तिष्ठति ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । रू॒पे । अ॒व्यये᳚ । विश्वाः᳚ । अर्ष᳚न् । अ॒भि । श्रियः᳚ ।
शूरः᳚ । न । गोषु᳚ । ति॒ष्ठ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अव्यये अविमये रूपे रूप्यमाणे वस्त्रे पुनानः पूयमानो विश्वाः सर्वाः श्रियः शोभाः अभ्यर्षन् अभिगच्छन् गोषु निमित्तासु शूरोन शूरइव सयथा संग्रामे तिष्ठति तद्वदसौ तिष्ठति पात्रे ॥ ६ ॥

9.16.7
दि॒वो न सानु᳚ पि॒प्युषी॒ धारा᳚ सु॒तस्य᳚ वे॒धसः᳚ ।
वृथा᳚ प॒वित्रे᳚ अर्षति ॥
▶ पदपाठः (Word-by-word)
दि॒वः । न । सानु᳚ । पि॒प्युषी᳚ । धारा᳚ । सु॒तस्य᳚ । वे॒धसः᳚ ।
वृथा᳚ । प॒वित्रे᳚ । अ॒र्ष॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवोन द्युलोकादन्तरिक्षादिव सानु समुच्छ्रितमुदकं तद्यथा अधोनिपतति तद्वद्वेधसोविधातुः बलस्य कर्तुः सुतस्याभिषुतस्य सोमस्य पिप्युषी आप्याययन्ती धारा व्रथा अनायासेनैव पवित्रे दशापवित्रे अर्षति गच्छति ॥ ७ ॥

9.16.8
त्वं सो᳚म विप॒श्चितं॒ तना᳚ पुना॒न आ॒युषु᳚ ।
अव्यो॒ वारं॒ वि धा᳚वसि ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । वि॒पः॒॑चित᳚म् । तना᳚ । पु॒ना॒नः । आ॒युषु᳚ ।
अव्यः᳚ । वार᳚म् । वि । धा॒व॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं विपश्चितं स्तोतारं आयुषु मनुष्येषु मध्ये रक्षसि । अथवा विपश्चितमिन्द्रं प्रीणयितुं तना पुनानः सन् अव्योवारं अवेर्वाले विधावसि विविधं गच्छसि ॥ ८ ॥

प्रनिम्रेनेवेत्यष्टर्चं सप्तदशं सूक्तं ऋष्याद्याः पूर्ववत् । प्रनिम्रेनेवेत्यनुकान्तम् । गतोविनियोगः