अ॒य॒क्ष्मा बृ᳚ह॒तीरिषः᳚ ॥
पदपाठः (Word-by-word)
अ॒य॒क्ष्माः । बृ॒ह॒तीः । इषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वं दिवोद्युलोकात् वृष्टिं नोस्माकमापवस्व समन्तात्कुरु । एतदेव दर्शयति—अपा मुदकानामूर्मिं तरंगं दिवः पर्यापवस्व । अपिचायक्ष्माः यक्ष्मरहितानि अनामयानि बृहतीर्महां ति इषोन्नानि आपवस्व ॥ १ ॥