श्रवणम्

9.49.4
स न᳚ ऊ॒र्जे व्य१॒᳚व्ययं᳚ प॒वित्रं᳚ धाव॒ धार᳚या ।
दे॒वासः᳚ शृ॒णव॒न्हि क᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । ऊ॒र्जे । वि । अ॒व्यय᳚म् । प॒वित्र᳚म् । धा॒व॒ । धार᳚या ।
दे॒वासः᳚ । शृ॒णव᳚न् । हि । क॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सत्वं नोस्माकमूर्जे अन्नायाव्ययमविमयं पवित्रं धारया संपातेन विधाव प्राप्नुहि । देवासोदेवाः अपि हि कं श्रृणवत् गमनवेलायामुत्पन्नं तव शब्दं श्रृण्वद्न्तु ॥ ४ ॥