श्रवणम्

9.49.3
घृ॒तं प᳚वस्व॒ धार᳚या य॒ज्ञेषु᳚ देव॒वीत᳚मः ।
अ॒स्मभ्यं᳚ वृ॒ष्टिमा प᳚व ॥
▶ पदपाठः (Word-by-word)
घृ॒तम् । प॒व॒स्व॒ । धार᳚या । य॒ज्ञेषु᳚ । दे॒व॒॑वीत᳚मः ।
अ॒स्मभ्य᳚म् । वृ॒ष्टिम् । आ । प॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम यज्ञेषु देववीतमोत्यन्तं देवकामस्त्वं अस्मभ्यं भार्गवेभ्यः कविभ्योघृतमुदकम् । वनं घृतमित्युदकनामसु पाठात् । धारया संपातेन पवस्व क्षर । वृष्टिं वर्षं वा आपवापवस्व ॥ ३ ॥